SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १६१ अनिदम्यणपवादे च दित्यदित्यादित्ययमपत्यु त्तरपदाच्यः ॥६॥१॥१५॥ दिति अदिति आदित्ययमशब्देश्यः पत्युत्तरपदाच प्राग्जितीयेऽर्थे इदमथै वर्जितेऽपत्यादावर्थे योऽणोऽपवादप्रत्ययस्तद्विषये व्यः स्यात् । दितेरपत्यं दैत्यः। अदितेरपत्यमादित्यः । दितिर्देवताऽस्येति दैत्यम् । अदितिर्देवताऽस्येत्यादित्यम् । आदित्यो देवताऽस्येत्यादित्य्यम् । यमस्य याम्यम् । पत्युत्तरपदम् , बृहस्पतिर्देवोऽस्य बार्हस्पत्यम् । अत्राणोऽपवादः। पृथिव्या भाञ् ॥६॥१८॥ पृथिव्यां भवः पार्थिवः । अप्रत्यये पार्थिवी घटिका । अप्रत्यये पार्थिवा । देवाद्यञ्च ॥६॥१॥२१॥ चकारानपि । देवस्येदं देवादागतं वा दैव्यम् । दैवम् । यजन्तादान्ताच ङी । दैवी वाक् । मतान्तरे ज्योऽपि । दैव्या। बहिषष्टीकण च ॥६॥१॥१६॥ बहिस् इत्येतस्मात्प्राग्जितीयेऽर्थे टीकण, चकाराद् नः । बहिर्जातो बाहीकः । बाह्यः। प्रायोऽव्ययस्य ॥७॥४॥६५॥ अपदे तद्धितेऽन्त्यस्वरादिलुक । टकारो ड्यर्थः । बाहीकी। अः स्थानः ॥६॥१॥२२॥ स्थामन् शब्दात्याग्जितीयेऽर्थे अप्रत्यय: स्यात् । अश्वत्थानोऽपत्यमश्व लोनोऽपत्येषु ॥६॥१॥२३॥ स्यात् । उडुलोमाः । उडुलोमैः । बहुवचनात्सौत्रादेकत्वद्वित्वे च बाह्रा'दित्वादि । औडुलोमिना । औडलोमिभ्याम् । उत्सादेरञ् ॥६॥॥१९॥ उत्सस्येदमौत्सम् । औदपानम् । अणपवादे च उत्सस्यापत्यमौत्सः। तरुण्या अपत्यं तारुणः । तालुनः।। कल्यग्नेरेयण् ॥१॥१७॥ आभ्यामेयण् स्यात् । कलिर्देवताऽस्य, कलौ भवं, कलेरिद, कलेरागतं काले त्थामः। चं. प्र. २१
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy