________________
१६०
गाायणो गाग्यों वा अर्थायामन्यत्र गार्य एव । गर्गस्थापत्यं पौत्रादि स्त्री गार्गी।
संज्ञा दुर्वा ॥६॥१६॥ या संज्ञा हठा अस्त्री इत्येवं नियुज्यते सा दुःसंज्ञा वा स्यात् । देवद्त्तीयाः । देवदत्ताः । सिद्धसेनीयाः । सैद्धसेनाः ।
त्यदादिः ॥१७॥ दुःसंज्ञः स्यात् । त्यदीयम् ।
वृद्धिर्यस्य स्वरेष्वादिः ॥६॥१॥८॥ ... यस्य शब्दस्य स्वराणां मध्ये आदिः खरो वृद्धिसंशः स्यात्स शब्दो दुसंज्ञः स्यात् । औपगवस्येदमौपगवीयम् । आम्रगुप्तायनिः।
प्राग्जितादणू ॥६॥१॥१३॥ तेनजितजयद्दीव्यत्खनत्सु एतत्सूत्रादर्वाग्येऽर्था अपत्यादयस्तेष्वपवादवि. षयं विनाऽण्प्रत्ययो वा स्यात् ।
उसोऽपत्ये ॥६॥१॥२८॥ षष्ठयन्तानानोऽपत्येऽर्थेऽणादयः स्युः। उपगोरपत्यमोपगवः ।
आद्यात् ॥६॥२९॥ अपत्यार्थप्रत्यया आयात्परमप्रकृतेरेव पौत्राद्यपत्यपूर्वजानामापरमप्रकृतेः पारम्पर्येण सम्बन्धादपत्यं स्यात् । तत्र तैस्तैः सम्बन्धविवक्षायामनन्तरवृद्धयुवभ्योऽपि प्रत्ययः प्रामोतीति नियमार्थोऽयं योगः । ऐकार्य इति विभक्तिलुकि उपगु अण् इतिस्थिते, णकारो वृद्ध्यर्थः ।।
वृद्धिः स्वरेष्वादेणिति तद्धिते ॥७॥४॥२॥ प्रिति णिति तद्धिते आद्यखरस्य वृद्धिः स्यात् ।
अस्वयंभुवोऽव् ॥७॥४॥७॥ खयम्भूव वर्णस्यापदस्य तद्धिते परेऽव् स्यात् । औपगवः। स्त्री चेदोपगवी।
धनादेः पत्युः ॥६॥१॥१४॥ धनादेर्गणात्परो यः पतिशब्दस्तदन्ताद्धनपतीत्येवमादेः प्रारिजतीयेऽर्थेऽण प्रत्ययो वा स्यात् । धनपतेरपत्यं तत्र भवः तत आगतो वा धानपतः । आश्वपतः । गाणपतः। गार्हपत्यमित्युत्तरसूत्रेण ।