________________
१५९
अथ तद्धितप्रकरणम् । श्रीमन्नाभेयवामेयवर्द्धमानजिनान्नमन् । तत्तद्धितोपदेशेन तानेव प्रस्तुवे सदा ॥ १ ॥
तद्धितोऽणादिः || ६ |१|१॥
इतो वक्ष्यमाणा अणादिप्रत्ययास्तद्धितसंज्ञाः स्युः । मारुदेवः । आश्वसेनिः । नैशलेयः ।
पौत्रादि वृद्धम् || ६|१|२॥
परमप्रकृतेरपत्यवतो यत्पौत्रावपत्यं तद्वृद्धसंज्ञं स्यात् । गर्गस्थापत्यं पौत्रादि गार्ग्यः । एवं वात्स्यः । पौत्रादीति किम् ? अनन्तरापत्ये गार्गिः । वात्सिः ।
वंश्यज्यायोभ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा || ६ |१| ३ ||
वंशे भवो वंश्यः । पित्रादिर्ज्यायान् भ्राता वयोधिकः एकपितृकः एकमातृको वा प्रपौत्रः । परमप्रकृतेश्वतुर्थः स्त्रीवर्जितप्रपौत्राद्यपत्यं जीवति वंश्ये ज्येष्ठभ्रातरि वा युवसंज्ञः स्यात् । गायीयणः । वात्स्यायनः । वैश्यज्यायोभ्रात्रोरिति किम् ? अन्यस्मिन् जीवति गार्ग्यः । कनिष्ठेऽपि गार्ग्यः । जीवतीति किम् ? मृते गार्ग्यः । प्रपौत्रादीति किम् ? पौत्रो गार्ग्यः । अस्त्रीति किम् ? स्त्री गार्गी ।
सपिण्डे वयः स्थानाधिके जीवद्वा || ६|१|४॥
योरेकसमः पुरुषस्तावन्योन्यस्य सपिण्डौ स्तः । वयो यौवनादिस्थानं पितापुत्रादीत्यादि परमप्रकृतेः स्त्रीवर्ज प्रपौत्राद्यपत्यं वयःस्थानाभ्यां द्वाभ्यामध्यधिके सपिण्डे जीवति जीवदेव युवसंज्ञं वा स्यात् । पितृव्ये पितामहस्य भ्रातरि वावयोधिके जीवति जीवद्गार्ग्यस्यापत्यं गार्ग्यः गाययणो वा । एवं वात्स्यः वात्स्यायनो वा । सपिण्ड इति किम् ? अन्यत्र गार्ग्यः । वयःस्थानाधिके इति किम् ? द्वाभ्यामन्यतरेण वा न्यूनत्वे गार्ग्यः । जीवदित्येव । मृते गार्ग्यः । प्रपीत्रादि किम् ? पौत्रो गार्ग्यः । स्त्री गार्गी ।
युववृद्धं कुत्साचें वा ॥६॥ ११५ ॥
युवा च वृद्धं चापत्यं यथासंख्यं कुत्सायामर्चायां च विषये युवसंज्ञं वा स्यात् युवापत्ये कुत्सायां पक्षे युवत्वं निवर्तते । तत्र वृद्धप्रत्ययेनाभिधानं स्यात् । गार्ग्यस्यापत्यं युवा कुत्सितो गार्ग्यः गार्ग्यायणो वा जाल्मः । गुर्वायत्तो भूत्वा स्वतन्त्रो यः स एवमुच्यते । कुत्सायाम् अन्यत्र गार्ग्यायणः वृद्धस्याचयां पक्षे युवत्वं स्यात्तदा युवप्रत्ययेनाभिधानं स्यात् । वृद्धस्यापत्यं वृद्धमर्चितं तत्रभवान्