SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १५८ वा । क्रियासातत्ये अपरस्पराः सार्था गच्छन्ति । सततमविच्छेदेन गच्छन्तीत्यर्थः। अन्यत्रापरपरा गच्छन्ति जनाः। आश्चर्यमद्भुते ॥ अन्यत्राचर्य शोभनं कर्म । गोष्पदं गोसेविते प्रमाणे च ॥ गावः पद्यन्तेऽस्मिन् गोष्पदो देशः । गोभिः सेवितो ग्रामसमीपः । प्रमाणे गोष्पदपूरं वृष्टो मेघः । गोष्पदमात्रम् । अन्यत्र गोः पदम् । प्रतिष्कशः सहायः प्रस्कण्वहरिश्चन्द्रावृषी मस्करो वेणुदण्डयोः। अन्यत्र मकरः। विष्किरः शकुनौ । अन्यत्र विकिरः । कास्तीराजस्तुन्दे नगरे । अन्यत्र कारतीरम् (2)। अजतुदः । कारस्करो वृक्षे॥ अन्यत्र कारकरः । पारस्करो देशनानि ॥ तस्करः चौरः । अन्यत्र तत्करः । बृहस्पतिः । प्रायो मुनिस्तस्य चित्तं प्रायश्चित्तं व्रतम् । वनस्य पतिरित्यादिराकृतिगणोऽयम् ।। ऋफिडादीनां डश्व लः ॥२॥३।१०४॥ ऋफिडादीनामृरो लुलो डकारस्य ललो भवति । लफिडः । लफिलः । ऋफिडः। ऋतकः । लतकः इत्यादि। जपादीनां पो वः ॥२॥३॥१०५॥ एषां पस्य वो वा भवति । जवा । जपा। त्रिविष्टपः । त्रिपिष्टपः। अवाची। अपाची । जपादयः प्रयोगतोऽनुसर्तव्याः। पृषोदरादयः॥३।२।१५५॥ एवं प्रकारा शब्दा विहितलोपागमवर्णविकाराः शिष्टप्रयोगात्साधव एव स्युः। पृषद् उदरमुदरे वाऽस्य । तलोपः । जीवनस्य मूतः पुटबन्धः। जीमूतः। वनलोपः । वारिणो वाहको बलाहको घनः । पूर्वपदस्य यः । उत्तरपदादेले इत्यादेशः । दूरासः । दुर्जनः । दुष्टो दासः दूडाशः । मयां रौतीति मयूरः । ब्रुवन्तोऽस्यां सीदतीति बृसी । भ्रमन् रौतीति भ्रमरः । वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ। धातोस्तदातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् १ श्रीजैनधर्माभ्युदयाय बालप्रयोधने नोज्वलपुण्यकान्त्या। चन्द्रप्रभा वीरकृपानुयातश्वकार मेघः शरदि प्रसथ ॥१॥ श्रीहीरः कनकस्थितौ परिणतः श्रीशीलसिद्धौ यथा, लोके स्यात्कमलाधि. वास विलसच्चारित्रभाजं प्रियः। धर्मः श्रीजिनदेशितः शतरविः श्रीहेमचन्द्रप्रभा-रम्यः प्राणिकृपामयः स हि तथा चित्ते सतां भासताम् ॥ १॥ नित्यं श्रीषभाहतः प्रणमनात् तत्पादपद्मश्रिया छत्रीभूय नखेन्दुमण्डललसद्भासा तु दीप्तप्रभः । श्रीमेघाद्विजयाह्नवाचकवरो वृत्तिं व्यधादादिमां शुद्धश्रीगुरुसिद्धहैमवचनैश्चन्द्रप्रभायामिमाम् ॥ २॥ इति श्रीमन्महोपाध्यायश्रीमेघविजयगणि विरचितायां चन्द्रप्रभाख्यायां प्रक्रियायां प्रथमवृत्तिः संपूर्णा । इति समासाश्रयविधयः।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy