________________
वाह्याद्वाहनस्य ॥२॥३॥७२॥ वाद्यवाचिनो रेफादिमतः पूर्वपदात्परस्य वाहनशब्दस्य नस्य णः स्यात् । इक्षुवाहणम् । वायादिति किम् ? सुरवाहनम् । वाह्यशब्देनात्र भारमात्रमारोप्य यदुह्यते तदेव।
पानस्य भावकरणे ॥२॥३॥७९॥ पूर्वपदस्थानिमित्तात्परस्य पानस्य नस्य णत्वं वा स्यात् । क्षीरपाणम् । क्षीरपानम् । करणेऽपि । कषायपाणः । कषायपानः । कंसः । भावकरण इति किम् ? पीयतेऽस्मिन्निति पानः । क्षीरपानो घोषः।।
देशे ॥२॥३॥७॥ समुदायेन चेदेशो गम्यते तदा पानशब्दस्य णत्वम् । पीयते इति पानम् । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः।
गिरिनद्यादीनाम् ॥२॥३॥६८॥ एषां नकारस्य वा णः स्यात् । गिरिणदी । गिरिनदी । चक्रणितम्या । चक्रनितम्बा । गिरिणखः। गिरिनखः । माषोनः । माषोणः ।
वोत्तरपदान्तनस्यादेरयुवपकाह्नः ॥२॥३॥७५॥
पूर्वपदस्थानिमित्तात्परस्योत्तरपदान्तभूतस्य तथा नागमस्य स्यादेश्च नकारस्य णो वा स्यानचेत्स नकारो युवादित्रयसम्बन्धी स्यात् । माषवापिणौ। माषवापिनौ । नागमे, बीहिवापाणि । ब्रीहिवापानि कुलानि । स्यादेः, माषवापेण । माषवापेन । नेह, गर्गाणां भगिनी गर्गभगिनी । उत्तरपदेति किम् ? गर्गाणां भगः गर्गभगः। सोऽस्यास्तीतिसमासपदादिन, गर्गभगिणी। अत्रोत्तरपदस्यान्तो नकारो न भवति इति विकल्पो न स्यात् । कवगैकस्वरवतीति प्रागुक्तम् । वृत्रहणौ । खगेकामिणी । खगेकामाणि । उर केण । गुरुमुखेण । क्षीरपेण ।
. पदेऽन्तरेऽनतद्धिते ॥२।३।९३॥ ___आङन्तं तद्धितान्तं च वर्जयित्वाऽन्यस्मिन् पदे निमित्तनिमित्तिनोरन्तरे नो णत्वं न । माषकुम्भवापेन । अनाङित्ति किम् ? प्राणद्धम् । पर्याणद्धम् । अतद्धित इति किम् ? आर्द्रगोमयेण ।
वर्चस्कादिष्ववस्करादयः ॥३२॥४८॥ कुत्सितं वर्ची वर्चस्कम् । निन्दादिष्वर्थेषु अवस्करादयः शब्दाः कृतशषसा धूत्तरपदा: साधवः। अवस्करः अन्नमलं तत्संयोगाद्देशोऽवस्करः । अवकरोऽन्यः । कुस्तुम्वुरूणि फलानि । कुतुम्बुरु। तिण्डुकवृक्षः। अपरस्परा अवरस्परा