________________
१५६
बलचि प्रत्यये परे पित्रादिवर्जितानां खरान्तानां दीर्घः स्यात् । कृषीवलः । अनजिरादिबहुस्वरशरादीनां मतौ ॥३॥२।७८॥
अजिरादिवर्जितानां पहुखराणां शरादीनां च मतो प्रत्यये दीर्घः स्यात् । अमरावती । शरादि, शरावती । मणीवती। वार्दीवानामगिरिः । बहुवचनमाकृतिगणार्थम् । तेन मृगावती । पद्मावतीत्यादि । बहुखरेति किम् ? ब्रीहिमती। नानीत्येव । वलयवती कन्या । शरवती तूणा।।
अपील्वादेर्वहे ॥३।२।८९॥ नाम्यन्तस्य वहे उत्तरपदे दीर्घः स्यात् । ऋषीयहम् । कपीवहम् । एवंनामनी नगरे । घान्ते वह शब्दे ऋषीवहः । मुनीवहः । अपील्वादेरिति किम् ? पीलुवहम् ।
शुनः ३२२।९०॥ श्वनशब्दस्योत्तरपदे दीर्घः स्यात् । शुनो दन्तः श्वादन्तः । श्वाकर्णः । कचिदा । श्वापुच्छः । श्वपुच्छः । श्वापदम् । श्वपदम्।
घज्युपसर्गस्य बहुलम् ॥३॥२॥८६॥ घनन्ते उत्तरपदे उपसर्गस्य बहुलं दीर्घः स्यात् । परीपाकः । नीहारः । प्रतीहारः । प्रभाव प्रभार इत्यादौ न दीर्घः।
नामिनः काशे ॥३।२।८७॥ नाम्यन्तस्योपसर्गस्थाजन्ते काशशब्दे उत्तरपदे दीर्घः स्यात् । नीकाशः। वीकाशः । घन्युपसर्गेत्यादौ अमनुष्य इति पाणिनिः । अमनुष्येति किम् ? निषादः। निष्प्रागेन्तः खदिरकााम्रशरेचप्लक्षपीयूक्षाभ्यो
वनस्य ॥२॥३॥६६॥ णत्वं स्यात् । निर्वणः । प्रवणम् । पारमध्येऽग्रेऽन्तः षष्ट्या वेत्यव्ययीभावे पूर्वपदस्यैकारः । अग्रेवणम् । अन्तर्वणम् ।। द्वित्रिस्वरौषधिवृक्षेभ्यो नवाऽनिरिकादिभ्यः
॥२॥३॥६७॥ द्वित्रिखरेभ्य इरिकादिवर्जेभ्य ओषधिवृक्षवाचिभ्यः परस्य वनस्य नस्य णो वा स्यात् । दूर्वावनम् । दूर्वावणम् । प्रियङ्गुवणम् । प्रियङ्गुवनम् । नेह इरिकावनम्।