________________
१५५ पुरुषे वा ॥२२॥१३५॥ कापुरुषः । कुपुरुषः।
अल्पे ॥३॥२॥१३६॥ ईषदर्थे कुशब्दस्य उत्तरपवे परे कादेशः स्यात् । ईषन्मधुरम् कामधुरम् । ईषदम्लं काम्लम् ।
काकवौ वोष्णे ॥३२॥१३७॥ उष्णे उत्तरपदे परे कुशब्दस्य काकवौ वा स्याताम् । ईषत्कुत्सितं वा उषणं कोष्णम् । कवोष्णम् । ईषत्कुत्सितं वा उष्णमत्र कोष्णः कवोष्णो वा देशः। तत्पुरुषे कदुष्णम् । बहुव्रीहौ कदादेशो न । कूष्णो देशः।
दिशब्दात्तीरस्य तारः ॥३॥२॥१४२॥ दक्षिणस्या दिशः, दक्षिणस्य देशस्य वा तीरं दक्षिणतारम् । वाऽनुवर्तनादक्षिणतीरम् । पूर्वतारम् । पूर्वतीरम्।। स्वामिचिह्नस्याविष्टाष्टपश्चभिन्नच्छिन्नच्छिद्रसुव
स्वस्तिकस्य कर्णे ॥३२॥८४॥ स्वामिचिह्नवाचिनो विष्टादिवर्जितस्य कर्णशब्दे उत्तरपदे दीर्घान्तादेशः स्यात् । द्विगुणाकर्णः। चिह्नस्येति किम् ? शोभनकर्णः । नेह । विष्टकर्णः । अष्टकर्णः । इत्यादि। गतिकारकस्य नहिवृतिवृषिव्यधिरुचिसहितनौ
कौ ॥३॥२॥८५॥ गतिसंज्ञकस्य कारकवाचिनो नह्यादिषु किवन्तेषूत्तरपदेषु परेषु दीर्घान्तादेशः स्यात् । उपनयति उपनद्यते वा उपानत् । परीणत् । नीवृत् । प्रावृट् । मावित् । नीरुक। तुराषाट् । छान्दसोऽयं हर्यर्थः । भीरुष्ठानादित्वात्षत्वम् । परीतत् । गमां काविति नलोपः । गतिकारकस्येति किम् ? पटुरुक् ।
तिग्मरुक।
कोटरमिश्रकसिध्रकपुरगशारिकस्य वणे ॥३२॥१६॥
एषां कृतणत्वे वनशब्दे परे दीर्घः स्यात् नानि । अञ्जनागिरिः । किंशुकागिरिः।
वलच्यपित्रादेः ॥३।२।८२॥