________________
१५४ भादितो वा ॥२॥३॥२७॥ इकारान्तानक्षत्रवाचिनो वा प्रागुक्तम् । रोहिणिषेणः । रोहिणिसेनः । ज्यापो यहुलं नानि इति इखः । इत इति किम् ? शतभिषक्सेनः ।
आशीराशास्थितास्थोत्सुकोतिरागे ॥३।२।१२०॥
अषष्ठीतृतीयान्तादन्यशब्दादाशिष्प्रभृतिषु उत्तरपदेषु दोऽन्तः स्यात् । अन्याआशी: अन्यदाशीः । अन्यदाशा।
ईयकारके ॥३।२।१२१॥ अन्यशब्दादीये कारके च पदे दोऽन्तः स्यात् । अन्यस्यायमन्यदीयः। गहा. दिस्वादीयः । अन्यस्यान्येन कारकः अन्यत्कारका ।
अन्यत्यदादेराः ॥३।२।१५२॥ अन्यशब्दस्य त्यदादेश्व दृगदृशदृक्षेषु आकारोऽन्तादेशः स्यात् । अन्य इव दृश्यतेऽन्यादृक् । अन्यादृशः । अन्यादृक्षः । तादृक् । तादृशः । तादृक्षः । यादृक् । यादृशः । यादृक्षः । अमूहक। अमूदृशः। अमूदृक्षा।
इदं किमीत्की ॥३॥२॥१५३॥ इदमीकाररूपः किम्कीकाररूपः स्याद्गादिषूत्तरपदेषु । अयमिव दृश्यते ईदृक् । ईदृशः। ईदृक्षः । क इव दृश्यते कीहक । कीदृशः । कीदृक्षः।
कोः कत्तत्पुरुषे ॥३॥२॥१३०॥ खरादावुत्तरपदे परे कोः कस्यात् । कुत्सितोऽश्वः कदश्वः । कदन्नम् ।
रथवदे ॥३।२।१३१॥ कद्रथः । कद्वदः।
तृणे जातौ ॥३।२।१३२॥ कनृणम् ।
कत्रि ॥३२॥१३३॥ कुशब्दस्य किं शब्दस्य वा त्रिशब्दे परे कत् स्यात् । कुत्सितास्त्रयः के वा नया कत्रयः।
काक्षपथोः ॥३॥२॥१३४॥ अक्षपथिन् इत्येतयोरुपपदयोः कोः का स्यात् । कुत्सितोऽक्षः पाशकादिः काक्षः। कुत्सितः पन्थाः कापथम् । कुत्सितः पन्था अस्मिन्देशे इति कापथो देशः। सकोऽपि ककु कुत्सितोऽक्षः (१) काक्षः। पथिन्शब्दनिर्देशात्तत्पर्यायेऽव्युत्पन्ने पथशन्दे न स्यात्। कुत्सितः पथोऽस्य कुपथं वनम्। अनीषदर्थार्थ वचनम् ।