________________
१५३ नवाऽखित्कृदन्ते रात्रेः ॥३।२।११७॥ - मोऽन्तः स्यात् । रात्रिंचरः। रात्रिचरः । रात्रिमटः । राज्यटः । खिदर्जनं किम् ? रात्रिमन्यमहः। खित्यनव्ययारुषो मोऽन्तो ह्रस्वश्च ॥३।२।१११॥
अनव्ययस्यार्थात्स्वरान्तस्यारुषश्च खित्प्रत्ययान्ते उत्तरपदे मोऽन्तः स्यात् । यथासम्भवं इखश्चान्तादेशः स्यात् । शंमन्यः। परत्वात्पुंवद्रावो इखेन बाध्यते । कालिंमन्या । अनव्ययस्येति किम् ? दोषामन्यमहः । अरुष इत्येव । अरुन्तुदः। अरुः शब्दोपादानादनव्ययस्य व्यञ्जनान्तस्य मोऽन्तो न स्यात् । गीर्मन्यः।
नाम्नि ॥३।२।१४४॥ सहस्य स स्यात्संज्ञायाम् । सपलाशं वनम् ।
अदृश्याधिके ॥३२॥१४५॥ सहस्य सः। साग्निः कपोतः। सपिशाचा वात्या । सराक्षसीका निशा। राक्षसी निशयाऽनुमेया । अधिके, सद्रोणा खारी।
ग्रन्थान्ते ॥३।२।१४७॥ उत्तरपदेऽस्मिन्नव्ययीभावे सहस्य सः । समुहूर्त ज्योतिषमधीतम् ।
समानस्य धर्मादिषु ॥३।२।१४९॥ समानस्य स इत्यादेशो धर्मादिघूत्तरपदेषु । सधर्मा। सजातीयः । सहपक्षेण सपक्षः । सहधर्मेण सधर्मा । तस्य भावः साधर्म्यम् । अथवा सादृश्यार्थ: सहशब्दः सदृशः सख्या ससखीति यथा । तेनायमखपदविग्रहो बहुव्रीहिः समासः । सदृशः पक्षोऽस्येत्यादि इति केचित् । सब्रह्मचारी । निपातोऽयम् ।
दृग्दृशदृक्षे ॥३।२।१५१॥ समानस्य सः स्यात् । समान इव दृश्यते सहक, सहशः, सदृक्षः।
भीरुष्ठानादयः ॥२॥३॥३३॥ समासे कृतषस्वाः साधवः । भीरूणां स्थान भीरुष्टानम् । असमासे भीरोः स्थानम् । अङ्गुलीनां सङ्गोऽङ्गुलिषगः । अन्यत्र अङ्गुलेः सङ्गः ।
एत्यकः ॥२॥३॥२६॥ ककारवर्जितानाम्यन्तस्थात्कवर्गात्परस्य सस्य षः स्यादेकारे परे नानि । हरिषेणः । श्रीषणः । अक इत्येव । विष्वक्सेनः । नाम्यन्तस्थाकवर्गादिति किम् ? सवेसेनः।