________________
१५२ कारीषगन्धीमाता । कारीषगन्ध्यामाता । कारीषगन्धीमातृकः । कारीषगन्ध्यामातृकः । मात इतिनिर्देशान्मातृशब्दस्य पुत्रप्रशंसामन्यं विनाऽपि पक्षे मात इत्यदन्त आदेशः। अन्यथा मातृशब्देनैव गतार्थत्वान्मातशब्दोपादानमनर्थक स्यात्। ऋदन्सलक्षणः कच् प्रत्ययोऽप्यतएव विकल्प्यते ।। मालेषीकेष्टकस्यान्तेऽपि भारितूलचिते ॥२।४।१०२॥
मालादीनामन्ते वर्तमानानां केवलानां च भारिमुख्येषूत्तरपदेषु इखः स्यात् । मालां बिभर्ति इत्येवंशीलो मालभारी । मोलभारिणी । पद्मपूर्वायां मालायां तथैव । इषीकतूलम् । मुझेषीकतूलम् । इष्टकचितम् । पक्केष्टकचितम् । इदमेवान्तग्रहणं ज्ञापकं ग्रहणवता नाना न तदन्तविधिरिति । तेन दिग्धपादोपहत सौत्रनाडिरित्यादी पदादेशायनण् प्रत्ययादयो न स्युः।
सत्यागदास्तोः कारे ॥३।२।११२॥ सत्यादिभ्यः कारे परे मोऽन्तः स्यात् । सत्यंकरोति सत्यङ्कारः। अगदङ्कारः। अस्तुकौर।
धेनोभव्यायाम् ॥३।२।११८॥ मोऽन्तो वा स्यात् । धेनुंभव्या । धेनुभव्या । नित्यमिति पाणिनिः । लोकंपृणमध्यन्दिनानभ्याशमित्यम् ॥३।२।११३॥
एते शब्दाः कृतपूर्वपदमान्ता निपात्यन्ते । लोकं पृणति लोकस्य वा पृणो लोकम्पृणः । मध्यं दिनस्य मध्यन्दिनम् । अश्नोतेघेत्रि अभ्याश इति रूपम् । अनभ्याशं दूरमित्यं गन्तव्यमस्याऽनभ्याशमित्यः । दूरात्त्याज्य इत्यर्थः।।
भ्राष्ट्राग्नेरिन्धे ॥३॥२॥११४॥ ___ आभ्यामिन्धशब्दे उत्तरपदे परे मोऽन्तः स्यात् । भ्राष्ट्रस्य इन्धः भ्राष्ट्रमिन्धः । अग्निमिन्धः। - अगिलाद्विलगिलगिलयोः ॥३२॥११५॥
गिलान्तशब्दवर्जितात्पूर्वपदात्परे गिलशब्दे गिलगिले चोत्तरपदे मोऽन्तः स्यात । तिमि गिलतीति तिमिडिलः । तिमीनां गिलगिल: तिमिनिलगिलः। अगिलादिति किम् ? तिमिङ्गिलं मत्स्यं गिलतीति तिमिगिलगिलः। पूर्वगिलशब्दानात्र मोऽन्तः।
भद्रोष्णात्करणे ॥३।२।११६॥ उष्णङ्करणम् । भद्रकरणम् ।