________________
१५१
नान्युत्तरपदस्य च ||३|२|१०७ ॥
उदकस्य पूर्वपदस्य उत्तरपदस्य वा नाम्नि उद इत्यादेशः । उदमेघः । उत्तरपदस्य, क्षीरोदः ।
उदकस्योदः पेपंधिवासवाहने || ३ |२| १०४ ॥
उदपेषं पिनष्टि । उदधिर्घटः । उदवासः । उदवाहनः ।
वैकव्यञ्जने पूर्ये ॥३२॥१०५॥
उदकुम्भः । उदककुम्भः । उदपात्रम् । उदकपात्रम् । खरे, उदकामत्रम् ।
मन्थौदनसक्तुविन्दुवज्रभारहारवीवधगाहे वा ॥३।२।१०६॥
उदकमन्धः । उदमन्थः । इत्यादि ।
वेदूतोऽनव्ययय्वृदीचङीयुवः पदे || २|४|९८ ॥
Faraarरयोरुत्तरपदे हखो वा स्यात् नचेत्तावव्ययस्वृतौ ईजूपौ ङीइयुयू स्थानौ च भवतः । लक्ष्मिपुत्रः । लक्ष्मीपुत्रः । ग्रामणिपुत्रः । ग्रामणीपुत्रः । ब्रह्मबन्धुपुत्रः । ब्रह्मबन्धूपुत्रः । अव्ययादिवर्जनं किम् ? काण्डीभूतम् । ऊरीकृत्य । ईच, कारीषगन्धीपुत्रः । ङी, गार्गीपुत्रः । इयुक्, श्रीकुलम् । ह्रीस्मृतिः । भ्रूभङ्गी । वक्री ग्रहम् ।
भ्रुवोऽच कुंसकुट्योः ॥ २|४|१०१ ॥
भ्रूशब्दे कुंसकुट्योरुत्तरपदयोः परयोर्हखोऽकारश्च स्यात् । कुंसः । भ्रकुंसः । भ्रुकुटिः । भ्रकुटि: । भ्रूकुंसः । भ्रूकुटिरित्यप्यन्ये ।
या पुत्रपत्योः केवलयोरीच तत्पुरुषे || २|४|८३ ॥
मुख्य आवन्तः च्या पुत्रपतिशब्दयोः केवलयोः परयोस्तत्पुरुषे समासे ईज् भवति । कारीषगन्ध्यायाः पुत्रः कारीषगन्धीपुत्रः । कारीषगन्ध्यायाः पतिः कारीषगान्धीपतिः । व्यवस्थितविभाषया इखो न । परमकारीषगन्धीपुत्रः ।
वन्धौ बहुव्रीहौ ॥२|४|८४॥
मुख्य आवन्तः ष्या बन्धुशब्दे केवले परे बहुव्रीहावीज् भवति । कारीषगन्ध्याबन्धुरस्याः कारीषगन्धीबन्धुः ।
मातमातृमातृके वा ॥२|४|८५ ॥
कारीषगन्ध्या माता यस्य स कारीषगन्धीमातः । कारीषगन्ध्यामातः । एवं