________________
१५०
यः ॥३॥२॥६४॥ ड्यन्तस्य परतः स्त्रीलिङ्गस्य तरादौ प्रत्यये ब्रुवादिषु चोत्तरपदेषु इखोऽन्तादेशः स्यात् । गौरितरा । गौरितमा । नर्तकिरूपा । कुमारिकल्पा । ब्रामणिबुवा । गार्गिचेली। गार्गिमता । उयः किम् ? दत्तातरा । मद्रिकातरा । परतः स्त्रीत्येव । आमलकीतरा । अनेकखरस्यैवाऽयं विधिः।
न वैकस्वराणाम् ॥३॥२॥६६॥ बहुवचनात् । परस्त्रीतिनिवृत्तम् । एकखरस्य उयन्तस्य तरादिषु प्रत्ययेषु नुवादिषूत्तरपदेषु रुयेकार्थेषु वा हवः स्यात् । स्त्रीतरा । स्त्रितरा । ज्ञस्य भायों झी। ज्ञितमा । ज्ञीतमा । अस्यापत्यं स्त्री ई। इरूपा । ईरूपा । कस्य भार्या की। किकल्पा । कीकल्पा। शिवा । ज्ञीब्रुवा । इत्यादि । ड्यन्तस्येत्येव । श्रीतरा। हीतमा।
ऊङः ॥३।२।६९॥ ऊङन्तस्य प्राग्वत् । ब्रह्मवन्धूतरा । ब्रह्मबन्धुतरा । पक्षे धूदीर्घः ।
पदः पादस्याज्यातिगोपहते ॥३।२।९५॥ पादशब्दस्य आजि आति ग उपहत इत्येषु परेषु पद इत्यादेशः स्यात् । पादाभ्यामजति अतति वा पदाजिः। पदातिः। पदगः । पदोपहतः। अजेयभावो निपातनात् ।
हिमहतिकषिये पद् ॥३।२।९६॥ __ एषूसरपदेषु पादस्य पद्भवति । पादयोर्हिमम् पद्धिमम् । पद्धतिः। पादकषणशीलः। पत्काषी । पादौ विध्यन्ति पद्याः शर्कराः।पादयोर्भवाः पद्याः पांसवः । पचं घृतम् । पादार्थे पाद्यमिति पायाध्य इति निपातनात् । पादशब्दसम्बन्धिन्येव यत्प्रत्यये विधिः। द्विगुसमाससम्बन्धिनि तु द्वाभ्यां पादाभ्यां क्रीतं द्विपाधम् । पणपादमाषाद्य इति यः।
ऋचः शसि ॥३।२।९७॥ ऋचः पादस्य पद् । पादं पादं गायत्र्याः शंसतीति पच्छो गायत्रीं शंसति ।
शब्दनिष्कघोषामिश्रे वा ॥३।२।९८॥ । पदादेशः । पच्छब्दः । पादशब्दः । पन्निष्कः । पादनिष्कः । पद्धोषः। पाघोषः।