________________
१४९
लुप् न स्यात् । अमुष्य पुत्रस्य भावः आमुष्यपुत्रिका । अमुष्यकुलिका | चौरादिवादकञ् । आमुष्यायणः । नडादित्वादायनम् ।
देवानां प्रियः ||३२|३४॥
निपातोऽयम् ।
शेपपुच्छलाङ्गूलेपुनाम्नि शुनः ||३|२| ३५ ॥
श्वन्शब्दात्परस्याः षष्ठ्या लुप् न स्यात् शेपादावुत्तरपदे परे । शुनःशेपमित्र शेषस्य शुनः शेषः शुनः पुच्छः । शुनोलाङ्गूलः । नाम्नीति किम् ? वशेपम् ।
वाचस्पतिवास्तोष्पतिदिवस्पतिदिवोदासम् ॥३२॥३६॥
एते षष्ट्या अलुपि निपात्यन्ते नाम्नि |
ऋतां विद्यायोनिसम्बन्धे ||३|२|३७|
ऋकारान्तानां विद्याकृते योनिकृते च सम्बन्धे वर्तमानानां तत्सम्बन्धिन्येवोत्तरपदे परे षष्ट्या न लुप् । होतुः पुत्रः । होतुरन्तेवासी । पितुः पुत्रः । पितुरन्तेवासी । नेह | पितृधनम् ।
स्वसृपत्योर्वा ||३|२|३८ ॥
ऋदन्तात् षष्ठ्या वाऽलुप् । होतुः खसा । होतृखसा । स्वसुः पतिः । खसृपतिः ।
मातृपितुः स्वसुः || २|३|१८||
मातृपितृभ्यां परस्य स्वसृशब्दस्थसस्य षः स्यात् समासे । मातृष्वसारः । पितृष्वसारः । असमासे तु मातुः खसा । पितुः खसा ।
इत्यलुप् समासः ।
ऋदुदित्तरतम रूपकल्पब्रुवचेलट् गोत्र मतहतेषु
वा ह्रस्वश्च ||३|२/६३॥
ऋदुदिच परतः स्त्रीलिङ्गः शब्दस्तरादिप्रत्ययेषु ब्रुवादिषु रूयेकार्थेषु उत्तरपदेषु हस्खान्तः पुंवच वा स्यात् । पचन्तीतरा । पचन्तितरा । पचत्तरा । श्रेयसीतरा । श्रेयसितरा । श्रेयस्तरा । विदुषीतरा । विदुषितरा । विद्वतरा । पचन्ती चासौ ब्रुवा च पचन्तीब्रुवा । पचन्तिब्रुवा । पचहुवा |