SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १४८ कालात्तनतरसमकाले || ३|२|२४ ॥ अद्व्यञ्जनात् कालवाचिनः शब्दात्परस्याः सप्तम्या वा न लुप मनादौ परे कालशब्दे चोत्तरपदे परे । पूर्वाह्णेतनः । पूर्वाहृतनः । एवं तरादौ । वर्षक्षरावराप्सरःसरोरोमनसो जे ॥३॥२२६॥ एभ्यः सप्तम्या वा अलप जे उत्तरपदे परे । वर्षेजः । वर्षजः । मनसिजः । मनोज इत्यादि । धुप्रावृट्वर्षाशरत्कालात् ॥३।२।२७॥ दिप्रभृतेः शब्दात्परस्याः सप्तम्या न लुप् । दिविजः । प्रावृषिजः । शयवासिवा सेवकालात् ||३२|२५|| एतेषु पदेषु परेषु सप्तम्या अलुप् वा स्यात् । बिलेशयः । विखशयः । वनेवासी । वनवासी । गच्छः । इत्यादि । अपो ययोनिमति चरे ||३|२|२८ ॥ अपशब्दात्परस्याः सप्तम्या यप्रत्यये योनिमतिचरेषूत्तरपदेषु न लुप् । अप्सु भवः अपसव्यः । अप्सुयोनिः । अप्सुमतिः । अप्सुचरः । नेन सिद्धस्थे ||३|२|२९॥ इन प्रत्ययान्ते परे सिद्धस्थे इति चोत्तरपदे परे सप्तम्या लुप् नेति न, किन्तु स्यादेव | स्थण्डिलशायी । साङ्काश्यसिद्धः । समस्थः । 1 षष्ठ्याः क्षेपे ||३|२|३०॥ चौरस्य कुलमित्यादौ न लुप् । दासस्य भार्या । क्षेपे इति किम् ? द्विजकुलम् | पुत्रे वा ||३|२|३१॥ दास्याः पुन्नः । दासीपुत्रः । पश्यद्वाग्दिशो हरयुक्तिदण्डे ||३|२|३२|| एभ्या वरस्याः षष्ठ्याः क्रमेण हरयुक्तिदण्डेषु उत्तरपदेषु च लुप् स्यात् । पश्यतोहरः । वाचोयुक्तिः । दिशोदण्डः । अदसोऽकआयनणोः ||३|२|३३ ॥ अदसः षष्ठ्या अकञ्प्रत्ययविषये उत्तरपदे तथा आयनग्प्रत्यये च परे
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy