________________
नानि ॥३२॥१६॥ मनसादेवी।
परात्मभ्यां ॥३॥२॥१७॥ परस्मैपदम् । आत्मनेपदम् ।
अद्वयञ्जनात्सप्तम्या बहुलम् ॥३॥२॥१८॥ अकारान्ताद्वयञ्जनान्ताच परस्याः सप्तम्याः प्रायो लुप् न स्यात् नानि युधिष्ठिरः। बहुलग्रहणास्वचिद्भवति । जलकुकुटः । ग्रामसूकरः । कचिद्रिकल्पः। त्वचिसारः।
गवि युधेः स्थिरस्य ॥२॥३॥२५॥ आभ्यां स्थिरस्य सस्य षः स्यात् । गविष्ठिरः । अरण्येतिलकाः । गवीतिषचनादलुप् । बिदादिपाठाद्वा।
तत्पुरुषे कृति ॥३२॥२०॥ व्यञ्जनात्परस्याः सप्तम्याः कृदन्ते उत्तरपदे तत्पुरुषे लुप् न स्यात् । हूदि. स्पृक् । दिविस्पृक् । स्तम्बरमः । कर्णेजपः।
प्राकारस्य व्यञ्जने ॥३२॥१९॥ प्राचां देशे यः कारनामा रक्षानिशस्तस्य नाम्यव्यञ्जनात्परस्थाः ससम्या न लुप् स्यात् व्यञ्जनादावुत्तरपदे । मुकुटेकार्षापणः । हलेद्विपदिका । दृषदिमाषकः । प्रागिति किम् ? यूथे देयः पशुः यूथपशुः । व्यसनादौ किम् ? अविकटे देये उरणः अविकटोरणः । अविकटः अविसमूहः । प्रत्येकं तेषु देयः । अव्यञ्जनादिति किम् ? नद्यां दोहः नदीदोहः । प्रत्येक देयः।
मध्यान्ताद्गुरौ ॥३॥२॥२१॥ सप्तम्या न लुप् । मध्येगुरुः । अन्तेगुरुः । लुपमपि कश्चित् ।
अमूर्धमस्तकात्स्वाङ्गादकामे ॥३॥२॥२२॥ कण्ठेकालः । उरसिलोमा । अमूर्धमस्तकादिति किम् ? मूर्धशिखः । मस्तकशिखः । खाङ्गादिति किम् ? अक्षशौण्डः । अकाम इति किम् ? मुखकामः।
बन्धे घनि नवा ॥३॥२॥२३॥ हस्तेषन्धः । चक्रेयन्धः । हस्तबन्धः । चक्रवन्धः ।