________________
१४६
न किमः क्षेपे ॥७३॥७०॥
निन्दायां यः किम् तस्मात्परे ये ऋगादयस्तदन्तात्समासान्तो न स्यात् । किंधूः या न तथा गुर्वी । किंराजा यो न रक्षति । किंसखा ।
नञ्तत्पुरुषात् ॥७३॥७१॥
समासान्तो न स्यात् । अनूक् । अराजा । असखा । अपन्थाः पथ इत्यदन्तशब्दस्य । पथो विभाषेति पाणिनिः ।
बहोर्डे ||७|३|७३॥
डप्रसङ्गे बह्णन्तात्समासाद् ङः कच्च न स्यात् । आसन्ना बहवो येषां ते आसनबहवः ।
इति समासान्ताः ।
न उत्तरपदे लुप् इतिपदत्रयमनुवर्तनीयम् । असत्त्वे उसेः ॥३॥२॥१०॥
असर विहितो यो उसिस्तस्योत्तरपदे परे लुबू न स्यात् । स्तोकान्मुक्तः । एवमन्तिकार्थदूरार्थकृच्छ्रेभ्यः परङसेरपि । अन्तिकादागतः । विदूरादागतः । कृच्छ्रान्मुक्तः ।
अपथम्
ब्राह्मणाच्छंसी ॥३॥२॥११॥
अत्र उसेर्लुषभावो निपात्यते । ऋत्विग्विशेषो ब्राह्मणाच्छंसीतिनामा ।
ओजोऽञ्जः सहोऽम्भस्तमस्तपसष्टः ॥ ३२॥१२॥ एभ्यस्तृतीयैकवचनस्य लुप् न । ओजसा कृतम् । अञ्जसा कृतम् । आर्जवेन कृतमित्यर्थः । इत्यादि ।
पुंजनुषोऽनुजान्धे ||३|२|१३॥
पुंसाऽनुजः । यस्याग्रजः पुमान् स एवमुच्यते । जनुषान्धो जात्यन्धः ।
आत्मनः पूरणे ||३|२|१४ ॥
आत्मना द्वितीयः ।
मनसश्चाज्ञायिनि ॥३२॥१५॥
मनसाऽऽज्ञातुं शीलमस्येति मनसाज्ञायी ।