SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४५ निसश्च श्रेयसः ॥७३॥१२२॥ निस शब्दात् श्वस् शब्दाच्च पराच्छ्रेयसस्तत्पुरुषादत्स्यात् । निश्चितं श्रेयो निःश्रेयसम् । शोभनं श्रेयः श्वःश्रेयसम् । जातमहद्वृद्धादुक्ष्णः कर्मधारयात् ॥ ७|३ | १९५॥ एभ्यः परादुक्षान्तात्कर्मधारयादत्स्यात् । जातश्चासौ उक्षा च जातोक्षः । महोक्षः । वृद्धोक्षः । सरजसोपशुनानुगवम् ॥७|३|१९४ ॥ sauषीभावा अदन्ता निपात्यन्ते । सह रजसा सरजसम् । साकल्य समासः । शुनः समीपे उपशुनमस्ति । गामन्वायतमनुगवं यानम् । वैद्यर्थेऽतुः । अन्यत्र गोः पश्चादनुगु यानम् । गोष्ठातेः शुनः ॥ ७|३|११०॥ गोष्ठअति आभ्यां परात् श्वन् शब्दान्तात्तत्पुरुषादत् स्यात् । गोष्ठे श्वा गोष्टश्वः । अतिश्वो वराहः । अतिश्वी सेवा । अतिनीचेत्यर्थः । ब्रह्महस्तिराजपल्याद्वर्चसः ॥७|३|८३ ॥ एभ्यः पराद्वर्श्वस्शब्दात्समासादत्स्यात् । ब्रह्मणो वच ब्रह्मवर्चसम् । समवान्धात्तमसः ॥७३॥८०॥ एभ्यः परान्तमसः समासेऽत्स्यात् । सन्तमसम् । अवतमसम् । अन्धतमसम् । तप्तान्यवाद्रहसः ॥७३॥८२॥ एतत्पूर्वादशब्दात्समासेऽत्स्यात् । तसरहसम् । अनुरहसम् । अवरहसम् । प्रतेरुरसः सप्तम्याः ॥७|३|८४ ॥ प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः । उपसर्गादध्वनः ॥७३॥७९॥ धातुद्योगे उपसर्गसंज्ञात्प्रादेः परादध्वनोऽत्समासान्तः स्यात् । प्रगतोऽध्वानं प्राध्वो रथः । पूजाखतेः प्राक्टात् ॥७३॥७२॥ पूजार्थात्स्वतिसमासात्समासान्तो न स्याद्बहुव्रीहेः । काष्ठे ट इत्यतः प्रागेवायं निषेधः । सुराजा । अतिराजा । स्वतेरिति किम् ? परमराजः । पूजेति किम् ? गामतिक्रान्तमतिगवम् । प्राक्टादिति किम् ? खङ्गुलम् । खक्षः । चं. प्र. १९
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy