________________
१४४
संख्याया नदीगोदावरीभ्याम् ॥७॥३॥५१॥
संख्यापूर्वान्नदीगोदावर्यन्तादव्ययीभावादत् स्यात् । पश्चनदम् । ससगोदावरम् ।
अक्ष्णोऽप्राण्यङ्गे ॥७।३।८५॥ अक्षिशब्दान्तात्समासादत्स्यात्समासान्तः । गवामक्षीव गवाक्षः ।
नाभर्नाम्नि ॥७३॥१३४॥ नाश्यन्तबहुव्रीहेरप् स्यात्संज्ञायाम् । पद्मनाभः । ऋक्सामय॑जुषधेन्वनडुहवाङ्मनसाहोरात्ररात्रिदिवनक्तंदिवाहर्दिवोर्वष्ठीवपदष्ठीवाक्षिध्रुवदार
गवम् ॥७॥३९७॥ एतेऽप्रत्ययान्ता निपात्यन्ते । ऋक् च साम च ऋक्सामम् । ऋग्यजुषम् । धेनुश्चानड्डाँश्च धेन्वनडुहो । वाक् च मनश्च वाचनसे । अहश्च रात्रिश्चाहोरात्रः। रात्रिश्च दिवा च रात्रिन्दिवम् । नक्तं च दिवा च नक्तन्दिवम् । अहश्च दिवा चाहर्दिवम् । ऊरू चाष्ठीवन्तौ च ऊर्वष्ठीवम् । पादौ चाष्ठीवन्तौ च पादष्ठीवम् । अक्षिणी च भ्रुवौ चाक्षिध्रुवम् । दाराश्च गावश्च दारगवम् ।
नसुव्युपत्रेश्चतुरः ॥७॥३॥१३॥ एभ्यः पराश्चतुरन्ताबहुव्रीहेर स्यात् । अचतुरः । सुचतुरः । विचतुरः। उपचतुराः। त्रिचतुराः ।
स्त्रियाः पुंसो द्वन्द्वाच ॥७॥३१९६॥ स्त्रीपूर्वपुंसशब्दान्ताद्वन्द्वात्कर्मधारयाचात्स्यात् । स्त्री च पुमाँश्च स्त्रीपुंसम् । स्त्री चासौ पुमांश्च स्त्रीपुंसः।
द्वित्रेरायुषः ॥७॥३॥१०॥ समाहारे द्विगोरट् समासान्तः । व्यायुषम् । व्यायुषम् ।
पुरुषायुषद्रिस्तावत्रिस्तावम् ॥७३।१२०॥ एतेऽप्रत्ययान्तास्तत्पुरुषा निपात्यन्ते ।
श्वसोवसीयसः ॥७३।१२१॥ वसुमच्छब्दादीयसौ मतो अन्त्यखरादेश्व लोपे वसीयस् । शोभनं वसीयः। श्वसूशब्दः प्रशंसायाम् ।। श्वोवसीयसोऽत्समासान्तः । श्वोवसीयसम् ।