________________
१४३ सगङ्गमित्यादौ पूर्वपदार्थाऽप्राधान्येऽपि अव्ययीभावः । अतिमालादावुत्तरपदा
प्राधान्येऽपि तत्पुरुषः । द्वित्रा इत्यादावन्यपदार्थाऽप्राधान्येऽपि बहुव्रीहिः। दन्तोष्ठमित्यादावुभयपदार्थाऽप्राधान्येऽपि द्वन्द्वः । नाम नाम्ना तथाऽऽख्यातैःस्युक्तं नाम नामभिः। धातुनाऽऽख्यातमाख्यातेन चाऽऽख्यातं च नामभिः॥१॥ नाम नान्ना, राज्ञः पुरुषः । आख्यातेन नाम, पर्यभूषयत् । स्युक्तं नाम नामभिः, कुम्भकारः। धातुना, कटप्रूः। आख्यातमाख्यातेन, पिबतखादता क्रिया। नान्नाऽऽख्यातम् , कृन्तविचक्षणा । एहीडादयोऽन्यपदार्थे इति मयूरव्यंसकादिस्वा. समासः।
इति सर्वसमासशेषः॥
सरः।
ऋक्पू:पथ्यपोऽत् ॥७॥३॥७६॥ ऋच पुर् पथिन् अप् इत्येतदन्तात्समासादकारः समासान्तः प्रत्ययः स्यात्। ऋचोर्धमर्धर्चः । ऋचः समीपमुपर्चम् । श्रियः पू: श्रीपुरम् । जलपथः । विमला
धन्तरनवर्णोपसर्गादप ईए ॥३२॥१०९॥ द्वि अन्तर आभ्यामनवर्णान्तेभ्यश्चोपसर्गेभ्यः परस्यापशब्दस्योत्तरपदस्य ईप इत्यादेशः स्यात् । द्विधा गता आपो यस्मिन्निति द्वीपम् । अन्तरीपम् । समी. पम् । नीपम् । उपसर्गादिति किम् ? शोभना आपः वापः । पूजिता आपोऽत्यापः । खती पूजायां नोपसर्गों तेन न समासान्तः । अनवणेति किम् ? प्रापम् । परापम् । अवर्णान्ताद्वेति पाणिनिः । प्रेपम् । परेपम् ।।
अनोर्देशे उप् ॥३।२।११०॥ अनोः परस्याऽऽपो देशेऽभिधेये उप् स्यात् । अनूपो देशः।
धुरोऽनक्षस्य ॥७॥३३७७॥ समासादत्स्यात् । राज्यधुरा । अक्षे तु अक्षधूः।
प्रत्यन्ववात्सामलोनः ॥७॥३॥८॥ एतत्पूर्वसामलोमान्तात्समासादत्स्यात् । प्रतिलोमम् । अनुलोमम् । अवलोमम् ।
संख्यापाण्डूदककृष्णाद्भूमेः ॥७३।७८॥
अत्समासान्तः स्यात् । द्वयोर्भूम्योः समाहारो द्विभूमम् । द्वे भूमी अस्य द्विभूमः प्रासादः । पाण्डुभूमम् । पाण्डुभूमो देशः।