________________
१४२
शुक्लं च वस्त्रं शुक्लच कम्बलः तदिदं शुक्लम् । ते इमे शुक्ले वा । स्त्रीपुंसयोयोंगेsपि । शुक्लं च वस्त्रं शुक्लश्च कम्बलः शुक्ला च शाटी तदिदं शुक्लम् । तानीमानि शुक्लानि वा ।
पिता मात्रा वा ॥३|१|१२२॥
माता च पिता च पितरौ । मातापितरौ वा ।
श्वशुरः श्वश्रूभ्यां वा ॥ ३|१|१२३ ॥
aar सहोत श्वशुरो वा शिष्यते । श्वश्रूश्च श्वशुरश्च श्वशुरौ । श्वश्रूश्वशुरौ वा ।
त्यदादिः ||३|१|१२०॥
त्यदादिरेकः शिष्यतेऽन्येनात्यदादिना सहोक्तौ । स च चैत्रश्च तौ । त्यदादीनां मिथः सहोतौ यत्परं तस्यैकशेषः । स च यश्च यौ । यश्च एष च एतौ । त्यामादिरित्यर्थे पूर्वशेषोऽपि । स च यश्व तौ । स्त्रीपुन्नपुंसकानां सहवचने स्यात्परलिङ्गमिति । सा च चैत्रश्च तौ । स च देवदत्ता च तौ । सा च कुले च तानि । स च कुलं च ते । स च कुकुटः सा च मयूरी ते कुक्कुटमयूर्याविमे । परलिङ्गो द्वन्द्रोंऽशीतिसमासार्थस्य लिङ्गातिदेशान्तद्विशेषणस्य त्यदादेरपि तल्लिङ्गतैव न्याय्येति ।
ग्राम्याशिशुद्विशफसंघे स्त्रीप्रायः ||३|१|१२७॥
ग्राम्याणामशिशूनां द्विखुराणां पशूनां सङ्के स्त्री प्राग्वत् । गावच स्त्रियो गावो वृषभा इमा गावः । एकशकपशूदाहरणे पुरुषैकशेषः । अश्वाश्चेमे अश्वामा अमेऽश्वा इति पुल्लिङ्गं शिष्टम् |
स्यादावसंख्येयः ||३|१|११९॥
सर्वस्मिन् स्यादौ विभक्तौ तुल्यरूपाणामेकः शिष्यते संख्येयवाचिशब्द वर्जयित्वा । अक्षश्च शकटस्य अक्षश्च देवनः अक्षश्च विभीतकः अक्षाः । एवं पादाः । माषाः । श्येनी च श्येनी च श्येन्यौ ।
इत्येकशेषः ।
परार्थाभिधानं वृत्तिः । सा पञ्चधा । कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपात् । तदर्थप्रतिभासमर्थो वाग्व्यापारो वाक्यं विग्रहः । स लौकिकोऽलौकिकश्च । परिनिष्ठितस्वात्प्रयोगाहों लौकिकः साधुः तदन्योऽलौकिकोऽसाधुः । यथा राज्ञः पुरुषः प्रथमः । द्वितीयो राजन् असू पुरुष स इति । अविग्रहो नित्यसमा - सोsaपदविग्रहो वा । समासश्चतुर्धेति प्रायोवादः । अव्ययीभावस्तत्पुरुषो बहुव्रीहिर्द्वन्द्रम । एषां लक्षणासम्भवे नाम नाम्नेतिसमासः केवलः । सूपप्रति उन्म