SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४१ उषासोषसः ||३|२|४६ ॥ उषाच सूर्यश्वोषासा सूर्यम् । मातरपितरं वा ॥३२॥४७॥ माता च पिता च मातरपितरौ । पक्षे मातापितरौ । चवर्गदषहः समाहारे ॥७३॥९८॥ वर्गान्तादकारषकारहकारान्ताद्वन्द्वात्समाहारेऽत्समासान्तः स्यात् । वाक्त्वम् । श्रीस्रजम् । सम्पद्विपदम् । वाक्त्विषम् । छत्रोपानहम् । समाहार इति किम् ? प्रावृट्शरदो ॥ इति द्वन्द्वः । अथैकशेषः । समानामर्थेनैकशेषः ॥ ३ | १|११८ ॥ देवौ । देवाः । वक्रश्च कुटिलश्च वक्रौ कुटिलौ । वक्रदण्डश्च कुटिलदण्डश्च वऋदण्डी कुटिलदण्डौ वा । वृद्धो यूना तन्मात्रभेदे ||३|१|१२४ ॥ वृद्धो यूना सहोक्तावेकः शिष्यते । गार्ग्यश्च गार्ग्यायणश्च गाग्यौ । तदर्थप्रत्ययमात्रकृतं चेत्तयोः कृत्स्नं वैरूप्यं स्यात् । वृद्धः किम् ? गर्गगाग्ययणौ । यूना किम् ? गर्गगायौं । तन्मानभेद इति किम् ? गार्ग्यवात्स्यायनौ । भागवि तिभागवित्तिकौ । अत्रार्थभेदः । स्त्रीपुंवच ||३|१|१२५ ॥ वृद्धस्त्रीवाचि युववाचिना सहोतो शिष्यते स च स्त्रीशब्दः पुंलिङ्गे स्यात् । गार्गी च गायणश्च गाग्यौ । गार्गी च गार्ग्यायणौ च गर्गाः । पुंवद्भावान्ङीनिवृत्तौ यत्रो लुप् । गर्गान् । शसोऽतासश्चनः पुंसि इति नत्वम् । पुरुषः स्त्रिया ||३|१|१२६॥ सहोकौ शिष्यते तल्लक्षण एव विशेषश्चेत् । हंसी च हंसश्च हंसौ । भ्रातृपुत्राः स्वसृदुहितृभिः ||३|१|१२१ ॥ भ्राता च खसा च भ्रातरौ । पुत्रञ्च दुहिता च पुत्रौ । क्लीवमन्येनैकं च वा ॥ ३|१|१२८ ॥ ari नामान्येना क्लीवेन सहोक्तौ प्राग्वत् तन्मात्रभेदे तब वैकयत्स्यात् ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy