________________
१४०
न भवति । दशगोमहिषाः । एतावन्ति दधिघृतानि । बहवः पाणिपादाः । इयन्तो
गवाश्वाः ।
वान्तिके ||३|१|१४७॥
parierraगमे द्वन्द्व एकार्थो वा स्यात् । उपगता दश यस्य येषां वा उपदर्श गोमहिषम् । उपदशा गोमहिषाः । एवं दन्तोष्ठम् । दन्तोष्ठाः ।
आद्वन्द्वे ||३|२|३९॥
विद्यायोनिसम्बन्धवाचिनामृतां द्वन्द्वे पूर्वपदस्याकारः स्यात् उत्तरपदे परे । होतापोतारौ । मातापितरौ । पुत्रे, पितापुत्राविति ।
वेदसह श्रुतावायुदेवतानाम् ||३|२|४१ ॥
इहोत्तरपदे आकारः स्यात् । इन्द्रासोमौ । शुनासीरौ । अग्नामरुतौ । अनेन्द्र | देवतेति किम् ? स्कन्दविशाखी । वायुवर्जनात् वाय्वनी । अग्निवायू |
षोमवरुणेऽमेः ||३|२|४२॥
अस्य षोमे वरुणे च परे ईः स्याद्देवताद्वन्द्वे । षोमेतिनिर्देशादेव ईकारसनियोगे षत्वम् । अग्नीषोमौ । अग्नीवरुणौ । देवताद्वन्द्व इत्येव । अभिसोमौ माणवकौ ।
समासेऽमेः स्तुतः ॥२३॥१६॥
सस्य षः । अग्निष्टुत् ।
ज्योतिरायुर्भ्यां च स्तोमस्य || २|३|१७||
सस्य षः । ज्योतिष्टोमः । आयुष्टोमः ।
इर्वृद्धिमत्यविष्णौ ॥३॥२॥४३॥
विष्णुवर्ज वृद्धिमत्युत्तरपदे परे देवताद्वन्द्वेऽमेरिकारोऽन्तादेशः स्यात् । ईकाराकारयोरपवादः । अग्नामरुतौ देवते अस्य आग्निमारुतं कर्म । एवमग्नीवरुण देवते अस्यानिवारुणं कर्म । वृद्धिमतीति किम् ? आग्नेन्द्रं कर्म । आतो नेन्द्रवरुणस्येति वृद्धिर्न । विष्णुनिषेधादाग्नावैष्णवम् ।
दिवो द्यावा ||३२|४४॥
देवताद्वन्द्वे दिवशब्दस्योत्तरपदे परे द्यावा इत्यादेशः स्यात् । द्यौश्च भूमिश्च वाभूमी |
दिवस दिवः पृथिव्यां वा ||३२|४५ ॥
दिवस्पृथियौ । दिवःपृथिव्यौ । द्यावापृथिव्यौ । सकारनिर्देशान्न सस्य
रुवम् ।