________________
नदीदेशपुरां विलिङ्गानाम् ॥३॥१११४२॥ विविधलिङ्गानां नदीदेशपुरवाचिना खैर्द्वन्द्वः प्राग्वत्। उध्यश्चेरावती चोध्ये. रावति । गङ्गाशोणम् । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । ग्रामवर्ज घेदम् । जाम्बवं च शालूकिनी च जाम्बवशालूकिन्यौ ग्रामी। विरोधिनां द्रव्याणां न वा द्वन्द्वः स्वैः ॥३॥११३०॥ । येषां नित्यविरोधस्तेषां खैर्द्वन्द्वः प्राग्वत् वा । सुखदुःखम् । सुखदुःखे । शीतोष्णम् । शीतोष्णे।
पशुव्यञ्जनानाम् ॥३॥१॥१३२॥ एषां खैर्द्वन्द्रः प्राग्वद्वा । गोमहिषम् । गोमहिषौ । दधिपृतम् । दधिघृते।
नित्यवरस्य ॥३।१११४१॥ जन्तोः खैर्द्वन्द्वः प्राग्वत् । अहिनकुलम् ।
पाच्याशूद्रस्य ॥३॥१११४३॥ पात्राहशदवाचिनः खैर्द्वन्द्वः प्राग्वत् । तक्षायस्कारम् । यैर्भुक्ते पात्रं संस्कारेण शुध्यति ते । पात्रमहन्तीति पात्र्याः ।
गवाश्वादिः ॥३।१।१४४॥ अयं द्वन्द्वः प्राग्वत् । गवाश्वम् । अजाविकम् । तरुतृणधान्यमृगपक्षिणां बहुत्वे ॥३॥१११३३॥
एषां बहुत्वे प्रत्येकं द्वन्द्वः खैः प्राग्वत् वा । लक्षन्यग्रोधम् । प्लक्षन्यग्रोधाः । कुशकाशम् । कुशकाशाः । तिलमाषम् । तिलमाषाः । ऋश्यैणम् । ऋश्यैणाः। शुकषकम् । शुकवकाः।
अश्ववडवपूर्वापराधरोत्तराः ॥३॥१३॥ प्रयोऽप्येते द्वन्द्वाः खैरेकार्था वा स्युः । अश्ववडवम् । अश्ववडवौ । ह्रखत्वं निपात्यते । पूर्वापरम् । पूर्वापरे ।
न दधिपयआदिः ॥३॥१११४५॥ दधिपयःप्रभृतिर्द्वन्द्वो नैकार्थः स्यात् । दधिपयसी । समिधुनी । हारेवासवौ । सूर्याचन्द्रमसौ । एवं चण्डालमृतपादयः।
संख्याने ॥३॥१११४६॥ इयत्तापरिच्छेदः संख्यानम्। वर्तिपदार्थानां संख्याने गम्यमाने द्वन्द्र एकार्थों