SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३७ न सप्तमीन्द्रादिभ्यश्च ॥ ३|१|१५५ ॥ इन्द्रादेः प्रहरणवाचिनश्च सप्तम्यन्तं न प्राक् । चक्रपाणिः । इन्दुमौलिः । कचिन्न पाणिवज्रः । इति बहुव्रीहिः । अथ द्वन्द्वसमासः । चार्थे द्वन्द्वः सहोक्तौ ॥३|१|११७॥ नाम नाम्ना सहोक्तिविषये चार्थे वर्तमानं समस्यते समासो द्वन्द्वनामा स्यात् । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । तत्रैकस्मिन्नर्थेऽनेकस्य क्रियादेस्तुल्यबलतया ढौकनं समुच्चयः । यथा मैत्रः पचति पठति च । चैत्रो मैत्र पचति । गुणप्रधानभावमात्रविशेषे समुच्चय एवान्वाचयः । यथा बटो भिक्षामद गां चानय । अनयोर्विषये न समासः । अन्योन्यानपेक्षेण द्रव्याणामन्योन्यसापेक्षाणामुद्भूतावयवभेदः समूह इतरेतरयोगः । मैत्रच चैत्रच घटं कुर्याते इति चैत्रमैत्री घटं कुवते । अत्रावयवानामुद्भूतत्वात्तन्निबन्धनं द्वित्वं बहुत्वं च स्यात् । न्यग्भूतावयवभेदः समूहः समाहारः । धवश्च खदिरश्च पलाशश्च तिष्ठति इति धवखदिरपलाशं तिष्ठति । यद्वर्तिपदैः प्रत्येकं तदर्थानां युगपदभिधानं सासहोक्तिः । चैत्रमैत्री घटं कुर्याते । अत्र चैत्रोऽपि द्व्यर्थी मैत्रोऽपि यर्थः । चकारलभ्योऽयमर्थः । समाहारस्य चैकत्वादेकवचनम् । सूत्रे लध्वक्षरादौ एकग्रहणाइनामपि द्वन्द्वः । होतृपोतृनेष्टोद्गातारः । द्वयोर्द्वयोर्द्वन्द्वं कृत्वा पुनर्द्वन्द्वे होतापोतानेष्टोद्गातारः इत्येव । राजदन्तादिषु ||३|१|१४९ ॥ एषु पूर्वप्रयोगार्ह परम् । दन्तानां राजा राजदन्तः । धर्मार्थादिषु द्वन्द्वे ॥३१॥१५९॥ धर्मार्थादी द्वन्द्वे प्राप्तपूर्वनिपातं वाऽनियतपूर्वम् | अर्धधर्मौ । धर्मार्थो । आद्यन्तौ । अन्तादी । लघ्वक्षरासखीदुत्स्वराद्यल्पस्वरार्च्यमेकम् ||३|१|१६०॥ लध्वक्षरं सखिवर्जेकारोकारान्तं स्वराथकारान्तमल्पखरमर्व्यवाचिशब्दरूपं द्वन्द्वे समासे प्रानिपतति । यत्र चानेकसम्भवस्तत्रैकमेव । शरशीर्षम् अग्नीषोमी । अग्निधूमम् । पतिसुतौ । वायुतोयम् । सखिवर्जनं किम् ? सुतसखायौ । सखितौ । ग्रहणवता नाम्ना न तदन्तविधिरिति तदन्तनिषेधः । बहु चं. प्र. १८
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy