________________
१३४
सुसंख्यात् ॥७।३।१५०॥ परस्य पादस्य पात् । शोभनौ पादावस्य सुपात् । द्विपात् । त्रिपात् ।
वयसि दन्तस्य दत् ॥७।३।१५१॥ संख्यासुपूर्वस्य दन्तशब्दस्य बहुव्रीही वयसि गम्यमाने दत् इत्यादेशः स्यात् । सुदन् बालः । सुदती स्त्री। चतुर्दन् । षड् दन्ता अस्य षोडन् ।
स्त्रियां नानि ॥७॥३॥१५२॥ अय इव दन्ता यस्याः सा अयोदती । फालदती।
श्यावारोकाद्वा ॥७॥३३१५३॥ श्यावदन् । श्यावदन्तः । अरोकदन् । अरोकदन्तः । निर्दीसिका । निश्छि. द्रा वा दन्ता यस्य स एवमुच्यते। वाऽग्रान्तशुद्धशुभ्रवराहाहिमूषिकवृषशिखरात्
॥७३॥१५४॥ अग्रान्तेभ्यः शुद्धादिभ्यश्च परस्य दन्तशब्दस्य दत् इत्यादेशो वा स्यात् । कुड्मलाग्रदन् । कुड्मलाग्रदन्तो वा । शुद्धदन् । शुद्धदन्त इत्यादि।
ककुदस्यावस्थायाम् ॥७॥३॥१६७॥ वयसि गम्यमाने ककुदशब्दस्य लुक स्यात् बहुव्रीहौ । अजातककुद थालः । पूर्णककुत्तरुणः । सनककुवृद्धः ।
त्रिककुद्गिरौ ॥७॥३॥१६८॥ त्रिककुदोऽन्यः।
व्युदः काकुदस्य लुक्॥७॥३॥१६५॥ विगतं काकुदं तालु अस्येति विकाकुत् । एवमुत्काकुत् ।
पूर्णाद्वा ॥७॥३॥१६६॥ पूर्णकाकुद् । पूर्णकाकुदः।।
हृदयस्य हल्लासलेखाण्ये ॥३॥२॥८४॥ हृदयस्य लासलेखयोरुत्तरपद्योरणि येच प्रत्यये परे हृदादेशः । हल्लासः । हल्लेखः । लेखोऽत्राणन्तो न तु घमन्तः । हृदयस्य लेखो हृदयलेखः । हृदयं लिखतीति हल्लेखः । अणि तद्धिते हार्दम् । सौहार्दम् । हृदयस्य प्रियो हृयः। लेखग्रहणाज्ज्ञापकादुत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणं नास्ति ।