________________
१३३ सम्प्रपूज्जिानोबेहुव्रीही जुझौ एतौ स्तः । प्रगते जानुनी अस्य प्रजुः । संगते जानुनी अस्य संजुः । एवं प्रज्ञः । संज्ञः।
वो_त् ॥७॥३॥१५६॥ उर्द्धजुः । ऊर्द्धशः । पक्षे ऊर्द्धजानुः ।
धनुषो धन्वन् ॥७।३।१५८॥ शार्ङ्गधन्वा ।
वा नाम्नि ॥७३॥१५९॥ शतधन्वा । शतधनुः।
जायाया जानिः ॥७॥३॥१६४॥ युवतिर्जायाऽस्य युषजानिः।
सुपूत्युत्सुरभेर्गन्धादिगुणे ॥७।३।१४४॥ एभ्यः परागन्धशब्दाद्वहुव्रीही इत्समासान्तः स्यात् । सुगन्धिः । पूतिगन्धिः। उद्गन्धिः। सुरभिगन्धिः। नेह शोभना गन्धा द्रव्याण्यस्य सुगन्ध आपणिकः । अत्र द्रव्यार्थो गन्धशब्दो न तु गुणः।
वागन्तौ ॥७३३१४५॥ स्वादिपूर्वादाहार्यगुणवृसिगन्धशब्दान्ताद्वहुव्रीहेरिद्वा । सुगन्धि सुगन्धं वा शरीरम्।
वाऽल्पे ॥७३॥१४६॥ अल्पार्थे इत्समासान्तो वा । सूपस्य गन्धो लेशो यत्र सूपगन्धि सूपगन्धं वा भोजनम् । घृतगन्धि घृतगन्धं वा।।
वोपमानात् ॥७।३।१४७॥ पास्येव गन्धोऽस्य पनगन्धि पनगन्धं वा मुखम् ।
पात्पादस्याहस्त्यादेः ॥७॥३॥१४८॥ उपमानास्परस्य पादस्य पात् इत्यादेशः स्यात् बहुव्रीहौ । व्याघस्येव पादावस्य व्याघ्रपात् । हस्त्यादिवर्जनाद्धस्तिपादः ।
कुम्भपद्यादिः ॥७३॥१४९॥ अयं गणः कृतपद्भावो ज्यन्तश्च बहुव्रीहौ निपात्यते । कुम्भपदी स्त्री। पुरुषः कुम्भपादः।