________________
१३२ सुप्रातसुश्वसुदिवशारिकुक्षचतुरौणीपदाजपदप्रो
ष्ठपदभद्रपदम् ॥७॥३३१२९॥ एते घहवीही प्रत्ययान्ता निपात्याः। शोभनं प्रातरस्य सुप्रातः । शोभनं श्वोऽस्य सुश्वः । शोभनं दिवाऽस्य सुदिवः । शारेरिव कुक्षिरस्य शारिकुक्षः। चतस्रोऽस्त्रयोऽस्य चतुरस्त्रः । एण्या इव पादा अस्यैणीपदः । अजपदः । प्रोष्ठो गोः। तस्येव पादा अस्य प्रोष्ठपदः । भद्रपदः।
नसुदुर्यः सक्तिसक्थिहलेा ॥७३।१३६॥
एभ्यः परे ये सत्यादयस्तदन्ताबहुव्रीहेरप स्यात् । असक्तः । असक्तिः। सुसक्तः। सुसक्तिः । दुःसक्तः । दुःसक्तिः । एवमसक्थः । अहल इत्यादि ।
भृतिप्रत्ययान्मासादिकः ॥७३॥१४॥ भृत्यर्थे विहितप्रत्ययान्तान्मासशब्दादिकः प्रत्ययः स्यात् । पञ्च भृतिरस्य पश्चकः । पञ्चको मासोऽस्य पञ्चकमासिकः।
प्रजाया असू ॥७।३।१७३॥ नादेः परस्य प्रजान्तस्य बहुव्रीहेरस स्यात् । अप्रजाः । अपजसावित्यादि ।
मन्दाल्पाच मेधायाः॥७३॥१३८॥ . प्राग्वत् । अमेधाः । सुमेधाः । मन्दमेधाः । अल्पमेधाः।
द्विपदाद्धर्मादन् ॥७॥३॥१४१॥ धर्मशब्दान्ताद्विपदादन् स्यात् । साधुधर्मा । परमः खो धर्मों यस्य स परमखधर्मकः । नात्रान् । सन्दिग्धसाध्यधर्मेत्यादौ तु कर्मधारयपूर्वपदो बहुव्रीहिः। एवं परमखधर्मेत्यपि साधु ।
सुहरिततृणसोमाज्जम्भात् ॥७।३।१४२॥ अन् तथैव । जम्भो भक्ष्ये दन्ते च । शोभनो जम्भो यस्य स सुजम्मा । सुजम्भानौ।
द्विदण्ड्यादिः॥१॥३॥७५॥ गणोऽयमिजन्तः साधुरेव । द्वौ दण्डावस्मिन् प्रहरणे द्विदण्डि प्रहरति । द्विमुशलि । उभाहस्ति । उभयाहस्ति ।
संप्राजानोर्जुज्ञौ ॥७३॥१५५॥