SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १३१ टः दीर्घ सक्थि यस्य स दीर्घसक्थः । विशालाक्षः । दित्वाद्विशालाक्षी । पद्माक्षः । पद्माक्षी । बहुव्रीहेः काष्ठे टः ॥ ७३॥१२५॥ अङ्गुल्यन्तादस्माहः स्यात् । द्वे अङ्गुली यस्य तद्व्यङ्गुलं काष्ठम् । बहुव्रीहे - रिति किम् ? द्वे अङ्गुली प्रमाणमस्या द्व्यङ्गुला यष्टिः । द्वित्रेर्मूनों वा ॥ ७३॥१२७॥ द्विमूर्धः । त्रिमूर्धः । पक्षे द्विमूर्धा । त्रिमूर्धा | भान्नेतुः ॥ ७|३|१३३॥ अपू । मृगो नेता यासां ता मृगनेत्राः । पुष्यनेत्राः । अन्तर्बहिर्म्या लोम्नः ॥७|३|१३२॥ अप् । अन्तर्लोमः । बहिर्लोमः । अस्थूलाच्च नसः ॥ ७|३|१६१ ॥ स्थूलवर्जितात्पूर्वपदात्खरखुराभ्यां च परस्य नासिकाशब्दस्य नस इत्यादेशः स्यात् अदन्तो बहुव्रीहौ नाम्नि || दुरिव नासिकाऽस्य द्रुणसः । खरणसः । पूर्वपदस्थान्नाम्न्यगः ॥२३॥६४॥ पूर्वपदस्थाद्रष्टवर्णात्परस्य नस्य णः स्यान्नतु गकारव्यवधाने । अस्थूलाकिम् ? स्थूलनासिकः । खुरखरान्नासिकाया नस् || ७|३|१६० ॥ नाम्नि | खरा खरस्येव वा नासिका यस्य खरणाः । खरणसौ । एवं खुरणाः । पक्षे नस इत्यदन्तोऽपि । खुरणसः । उपसर्गात् ॥७|३|१६२॥ प्राग्वत् । प्रगता मवृद्धा वा नासिका यस्य स प्रणसः । उन्नता उद्गता वा नासिका यस्य तदुन्नसं मुखम् | असंज्ञार्थो योगः । नसस्य ॥२२३॥६५॥ पूर्वपदस्थानिमित्तात्परस्य नसस्य नो ण् स्यात् । वेः खुत्र ग्रम् ॥२|३|१६३॥ वैः परस्य नासिकाशब्दस्य बहुव्रीहौ खुस्रग्र इत्येते आदेशाः स्युः । विदुः । विनः । विप्रः । ख्योऽपि इति केचित् । विख्यः । गोनासस्तु नासाशब्दस्य ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy