________________
१३०
दिशो रूढ्यान्तराले ॥३२॥२५॥ दिग्नामरूत्यैव विनाम्ना समस्यतेऽन्तरालेऽभिधेये । दक्षिणस्याः पूर्वस्याश्चान्तरालं या दिक् सा दक्षिणपूर्वा । एवं पूर्वोत्तरा। तत्रादायमिथस्तेन प्रत्येतिसरूपेण युद्धेऽव्य
यीभावः ॥३१॥२६॥ तत्रेति सप्तम्यन्तं मिथ आदायेति क्रियासमभिव्याहारे तथा तेनेति तृती. यान्तं मिथः प्रहत्येति क्रियाव्यतिहारे सरूपेण नाना युद्धविषयेऽन्यपदार्थे समस्यते सोऽव्ययीभावः । अन्यार्थत्वाद्बहुव्रीहिरपि इति केचित् । केशेषु केशेषु मिथो गृहीत्वा कृतं युद्धं केशाकेशि ।
इच्युद्धे ॥७३।७४॥ समासान्तः इच्यखरे दीर्घ आञ्च इच्यखरादावुत्तरपदे परे पूर्वपदस्य दीर्घ आकारश्चान्तादेशः स्यात् । बाहुषु बाहुषु मिथो गृहीत्वा व्यासक्तं बाहूबाहवि। बाहाबाहवि।
अस्वयंभुवोऽव् ॥७॥४॥७॥ खयंभूवर्जस्यापदस्योवर्णान्तस्य तद्धिते परेऽव् इत्यादेशः स्यात् । एवं मुष्टामुष्टि । मुष्टीमुष्टि । अखर इति किम् ? अस्यसि ।
सहस्तेन ॥३॥१॥२४॥ सहेति नाम तुल्ययोगे विद्यमानार्थे च वर्तमान तृतीयान्तेन प्राग्वत् ।
सहस्यसोऽन्याथें ॥३॥२॥१४३॥ बहुव्रीहावुत्तरपदे परे सहस्य सो वा स्यात् । पुत्रेण सह सपुत्रः । सहपुत्रो वाऽऽगतः। सकर्मकः । सलोमकः।।
नाशिष्यगोवत्सहले ॥३॥२॥१४८॥ आशिषि गम्यायां गवादिवर्जिते उत्तरपदे परे सहस्य सो न स्यात् । खस्ति श्रीविजयसेनाय सहपरिवाराय ।
बहोर्डे ॥७३॥७३॥ डप्रसङ्गो यत्र ततो बह्वन्तात्समासान्तो डः कच न भवति । उपबहवः । उपगणाः। इति तु डान्तमेव ।
सक्थ्यक्ष्णः स्वाङ्गे ॥७३॥१२६॥