________________
१२९
रिति ॥३॥२॥५१॥ परतः स्यनूङ रिति प्रत्यये पुंवत् । पवी प्रकारोऽस्याः पटुजातीया।
सर्वादयोऽस्यादौ ॥३॥२॥६१॥ सर्वादिगणः परतः स्त्रीपुंवत्, न चेत्ततः परः स्यादिः स्यात् । सर्वासां स्त्रियः सर्वस्त्रियः । एकस्याः क्षीरमेकक्षीरम् । एकस्या आगतमेकरूप्यम् । एकमयम् । तस्यां वेलायां तदा । सवामिच्छति सर्वकाम्यति । सर्विका भायोऽस्य सर्वकभार्यः । सर्वा प्रियाऽस्य सर्वप्रियः।।
मृगक्षीरादिषु वा ॥३॥२॥६२॥ मृग्याः क्षीरं मृगक्षीरम् मृगीक्षीरं था। तद्धिताककोपान्त्यपूरण्याख्याः ॥३॥२॥५४॥
तद्धितप्रत्ययस्याकप्रत्ययस्य च यः ककारस्तदुपान्त्याः पूरणीप्रत्ययान्ताः तथाऽऽख्याः संज्ञाश्च परतः स्त्रियः पुंवन्न स्युः । पाचिकाभार्यः । तद्धिते, मद्रिकाभार्यः। पूरणी, द्वितीयाभार्यः । आख्या, दत्ताभार्यः।
तद्धितः स्वरवृद्धिहेतुररक्तविकारे ॥३॥२॥५५॥
स्वरस्थानाया वृद्धेहेतुर्यस्तद्धितस्तदन्तः स्त्रीलिङ्गः पुंवन्न स्यात्, रक्तार्थविकारार्थ विना । माथुरीभार्यः माथुरीमानिनी । तद्धित इति किम् ? कुम्भकारी भार्याऽस्य कुम्भकारभार्यः। अरक्तविकार इति किम् ? कषायेण रक्ता काषायी। सा कन्था यस्य स कषायकन्थः । विकारे, हेनो विकारो हैमी । सामुद्रिकाऽस्य स हैममुद्रिकः।
स्वाङ्गान्कीर्जातिश्वामानिनि ॥३॥२॥५६॥
खाङ्गाद्विहितो यो ङीस्तदन्तो जातिशब्दश्च परतः स्त्रीन पुंवत्, अमानिनि । सुकेशीभार्यः । शूद्राभार्यः । अमानिनीति किम्? सुकेशमानिनी । कठमानिनी । अत्र जातिनिषेधाद्धस्तिनीनां समूहो हास्तिकमिति पुंवद्रावो न स्यादिति न वाच्यम् । तत्सूत्रे जातिश्चेत्यादौ तद्धितयखरे इति विशेषात् । आसन्नविंशा इत्यत्र प्रमाणीसंख्याड्डः इति डप्रत्यये।
विंशतेस्तेर्डिति ॥७४॥६७॥ विंशतिशब्दस्यापदस्य ति इत्यस्य सर्वस्य लुक् स्यात् डिति। एवमदूरविंशाः।
अव्ययम् ॥३१॥२१॥ अव्ययं संख्यया समस्यते। उप समीपे दश येषां ते उपदशाः। नव एका. दश वेत्यर्थः । एवमुपविंशाः। उपत्रिंशाः।