________________
१२८
पञ्चमीकः पक्षः । अत्र तिरोहितावयवभेदस्य पक्षस्यान्यपदार्थतया रात्रिरप्रधानम् । बहुकर्तृको घटः । बहुकुमारीको देशः । बहुब्रह्मबन्धूको ग्रामः । नित्यग्रहणं किम् ? पृथुश्रीः पृथुश्रीः | लम्बभ्रूः । लम्बभ्रूकः । न कचि ॥ नवाऽऽपः । प्रियपद्माकः । प्रियपद्मकः ।
नाऽऽप्रियादी ||३२|५३॥
पूरण्यच्प्रत्ययान्ते रूयेकार्थे उत्तरपदे प्रियादौ च परे परतः स्त्री पुंवन्न स्यात् । कल्याणी पञ्चमी यासां ताः कल्याणीपञ्चमा रात्रयः । कल्याणी प्रियाऽऽस्य कल्याणीप्रियः । अप्रियादाविति किम् ? कल्याणपञ्चमीकः पक्षः । सामान्ये नपुंसकम् । दृढं भक्तिर्यस्य स दृढभक्तिः ।
क्यमानिपित्तद्धिते ॥ ३ ।२५०॥
क्यङि प्रत्यये मानिनि शब्दे चोत्तरपदे पिति तद्धिते च परे परतः स्त्री अनूङ् पुंवत्स्यात् । श्येनीवाचरतीति इयेतायते । दर्शनीयां मन्यते दर्शनीयमान्ययमस्याः । तद्धितपिति, अजायै हितमजथ्यम् । पित्तिथटि, बह्वीनां पूरणी बहुतिथी । पचरदि, भूतपूर्वा पट्टी पटुचरी । पित्तसि, बह्रीभ्यो बहुतः । त्रप, बह्वीषु बहुत्र । शस, बह्रीभ्यो देहि बहुशो देहि । पाशपू, निन्या दर्शनीया दर्शनीयपाशा । तमप्, इयमासामतिशयेन पक्का पक्कतमा । तर, इयमनयोरतिशयेन पक्का पक्कतरा । एवं दर्शनीयरूपा । दर्शनीयकल्पा । दर्शनीयदेश्या । हवा दर्शनीया दर्शनीयका । कथं पट्टीका मृद्वीका ? ज्यादिदूतः के इत्यत्र ङीग्रहृणं पुंवद्भावबाधनार्थम् । तेन इखः । पतिरा । पतिमा । पिग्रहणात्पतीमयम् । त्वते गुणः ॥३२५९॥
परतः रूपङ्गुणवचनः शब्दस्त्वत्वयोः परतः पुंवत् । पद्मा भावः पटुत्वम् । पटुता । गुण इति किम् ? कर्त्रीत्वम् ।
एयेनायी ||३|२|५२॥
तद्विते एयप्रत्ययेऽग्नायी एव पुंवत् । अग्नायी देवताऽस्येत्याग्नेयः । इह न । इयैनेयः । रौहिणेयः ।
जातिश्च णितद्धितयखरे ॥३२॥५१॥
पुंवत् । णौ, पट्टीमाचष्टे पटयति । तद्धिते ये, एन्यां साधुरेव्यः । लोहिन्यां साधु लोहित्यम् । तद्धितखरे, भवत्या इदं भावत्कम् । इण । इकारलोपः । भवत्या इदं भवदीयम् । दारदीयः । इयमासामतिशयेन पट्टी पटिष्ठा । पटीयसी । हस्तिनीनां समूहो हास्तिकम् । सापत्न इत्यत्र सपल्यादावितिसूत्रे सपत्नीतिसमुदायनिपातनात् । अतएव सपत्नी भार्या यस्य स सपत्नीभार्यः इत्यत्र न पुंवद्भावः । सपत्नस्यायं सापत्न इति वा भविष्यति ।