________________
१२७
ड्राय्र्यः । कल्याणी चासी पञ्चमी च कल्याणपञ्चमी । पंद्वी च मृद्वी च ते पट्टीमृयौ । ते भार्ये अस्येति पट्टीमृदुभार्यः । अत्र द्वन्द्वपदानां परस्परार्थसङ्क्रमायर्थस्य मृदुशब्दस्य द्वयर्थेन भार्याशब्देन सामानाधिकरण्यात् पुंवद्भावो न पट्टीशब्दस्य व्यवधानात् । एवं चित्राजरगुः । कर्मधारयपूर्वपदे तु द्वयोरपि पुंवद्भावः । जरचित्रगुः । कर्मधारयोत्तरपदे तु चित्रजरगवीकः । परत इति किम् ? वडवाभार्यः । स्त्रीति किम् ? ग्रामणि कुलं दृष्टिरस्य ग्रामणिदृष्टिः । रुयेकार्थ इति किम् ? कल्याणी वस्त्रम् । स्त्रीग्रहणं किम् ? कल्याणी प्रधानमस्य कल्याणीप्रधानः । एकार्थ इति किम् ? कल्याण्या माता कल्याणीमाता । अनूङिति किम् ? वामोरुभार्यः । प्रसज्यप्रतिषेधोऽयम् ।
पूरणीभ्यस्तत्प्राधान्येऽप् ॥७|३|१३०॥
पूरणप्रत्ययान्तं यत्स्त्रीलिङ्गं तदन्ताद्वहुव्रीहेरप् स्यात् तस्याः पूरण्याः प्राधान्येन समासेनाऽभिधीयमानोऽर्थः प्रधानं स्यात् । कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः ।
प्रमाणी सङ्ख्याडुः ॥७|३|१२८॥
प्रमाणीशन्दान्तात् संख्यावाचिशब्दान्ताच्च बहुव्रीहेर्डः स्यात् । स्त्रीप्रमाणी येषां ते स्त्रीप्रमाणाः कुटुम्बिनः ।
सुज्वार्थे संख्या संख्येये संख्यया बहुव्रीहिः
॥३|१|१९॥
सुचोsर्थी वारः । वार्थी विकल्पः संशयो वा । सुज्वार्थे वर्तमानं संख्यावाचि नाम संख्येये वर्तमानेन संख्यावाचि नाम समस्यते ऐकार्थ्यं स बहुव्रीहिः । द्वौ वा त्रयो वा द्विनाः । पञ्चषाः । द्विदशाः । त्रिदशाः ।
आसन्नादूराधिकाध्यर्धार्धादिपूरणं द्वितीयाद्य
न्यार्थ ||३|१|२०|
आसन्नादीनि नामानि अर्धशब्दपूर्वपदं च पूरणप्रत्ययान्तं नाम संख्ययैकार्थ्य समस्यते, द्वितीयाद्यन्तस्यान्यपदस्यार्थे संख्येयरूपेऽभिधेये स समासो बहुव्रीहिः । आसन्ना दश दशत्वं वा येषां ते आसन्नदशाः । अदूरदशाः । अधिकदशाः । अध्यर्धविंशाः । अर्धपञ्चमा विंशतयो येषां तेऽर्धपञ्चमविंशाः । नवतिरित्यर्थः ।
ऋन्नित्यदितः ॥ ७|३|११२॥
ऋकारान्तान्नित्यदितश्च शब्दाद्बहुव्रीहेः कच् समासान्तः स्यात् । कल्याण