________________
१२६
गुरावेक ||२||१२४॥
गौरवार्थे द्वावेकञ्च बहुवत्स्यात् । त्वं गुरवः । यूयं गुरवः । युवां गुरू । यूयं गुरवः । पात्रादिवर्जितादन्तोत्तरपदः समाहारे । द्विगुरन्नाबन्तान्तो वाऽन्यस्तु सर्वो नपुंसकम् ॥ १ ॥ खलं भुवि तथा लक्ष्यं वेध्योऽहः सुदिनैकतः । भूमोऽसंख्यात एकार्थे पथः संख्याव्ययोत्तरः || २ || द्वन्द्वैकत्वाव्ययीभावौ क्रियाव्ययविशेषणे । कृत्याः क्ताना खलू जिनभावे आत्त्वात्त्वादिः समूहजः ॥ ३ ॥ गायव्याद्यण् स्वार्थेऽव्यक्तमथा नञ्कर्मधारयः । तत्पुरुषो बहूनां चेच्छाया- शालां विनां सभा ॥ ४ ॥ राजवर्जितराजार्धराक्षसादेः पराऽपि च । आदावुपक्रमोपज्ञे कन्धोशीनरनानि च ॥ ५ ॥ सेना शाला सुरा छाया निशा वोर्णा शशात्परा । भानुणो गृहतः स्थूणा संख्या दन्ता शतादिका ॥ ६ ॥ इत्यादि लिङ्गानुशासनम् । तत्पुरुषो नञकर्मधारय इति वचनादृढसेनो राजा । असेना । परमसेना । इति तत्पुरुषः ।
अथ बहुव्रीहिः । एकार्थं चानेकं च ॥३१॥२२॥
एकमनेकं चैकार्थ नामाव्ययं च नाम्ना द्वितीयाद्यन्तस्यान्यपदस्यार्थे समस्यते स समासो बहुव्रीहिसंज्ञः । समानाधिकरणमेकार्थम् । नता इन्द्रा यं स नतेन्द्रः । विद्राविता दोषा येन स विद्रावितदोषः । दत्तं दानं येभ्यस्ते दत्तदानाः । वीतं दौस्थ्यं येभ्यस्ते वीतदौस्थ्याः । अनन्तं ज्ञानं येषु तेऽनन्तज्ञानाः । आरूढा बहवो नरा यं स आरूढबहुनरो गजः । उच्चैर्मुखमस्य स उचैर्मुखः । एकार्थ इति किम् ? पञ्चभिर्भुक्तमस्य । द्वितीयाद्यन्यार्थ इत्येव । वृष्ठे मेघे गतः । बहुलाधिकाराद्राजन्वती भूरनेन, मागू ग्रामोऽस्मात् पञ्च भुक्तवन्तोऽस्येत्यादौ
म समासः ।
उष्ट्रमुखादयः ॥३१॥२३॥
उष्ट्रस्य मुखमिव मुखं यस्य स उष्ट्रमुखः । प्रादिपूर्व धातुजं पदं समस्यते, विकल्पेन चोत्तरपदलोपः । प्रपतितानि पर्णानि अस्येति प्रपतितपर्णः । प्रपर्णः । पूर्वमस्त्यर्थं पदं समस्यते वा चोत्तरपदलोपः । अविद्यमानः पुत्रः अपुत्रः । अस्तीत्यव्ययं विभक्तिप्रतिरूपकम् । अस्तिक्षीरमस्या अस्तिक्षीरा गौः ।
परतः स्त्री पुंवत्ख्येकार्थेऽनङ् ||३|२|४९ ॥
परतो विशेष्यवशाद्यः स्त्रीलिङ्गः शब्दः स स्त्रियां वर्तमाने एकार्थे तुल्याधिकरणे उत्तरपदे परे पुंवत्स्यात्, नचेद्दूङन्तः । पचन्ती भार्या यस्य स पच