________________
१२५ चत्वारिंशदादौ वा ॥३।२।९३॥ प्रागुक्तम् । द्विचत्वारिंशत् । द्वाचत्वारिंशत् । त्रिचत्वारिंशत् । त्रयश्चत्वा. रिंशत् । अष्टचत्वारिंशत् । अष्टाचत्वारिंशदा।
न विंशत्यादिनैकोऽच्चान्तः ॥३३॥५९॥ एकशब्दस्तृतीयान्तो न विंशत्यादिना नाम्ना समस्यते स तत्पुरुषः । एकशब्दस्य चादन्तः स्यात् । एकेन न विंशतिः, एकान्नविंशतिः। पक्षे एकानविंशतिः। एकान्नत्रिंशत् । एकादूनत्रिंशत् । नविंशत्यादिनेतिनिर्देशान्नप्रदित्यकारो न ।
एकादशषोडशषोडषोढा
षड़ा ॥३॥२॥९॥ एते निपात्याः कृतदीर्घत्वादयः । एकोत्तरादश एकश्च दश चेति वा एकादश । अत्रैकस्य दीर्घवम् । षषोऽन्तस्योत्वं दस्य डत्वमिति । अत्र परलिङ्गो द्वन्द्रोशीतिपरलिङ्गमेव । अर्धपिप्पली । द्विगुप्राप्तापन्नालं पूर्वगतिसमासेषु परलिङ्गतानिषेधात् । पञ्चसु कपालेषु संस्कृतः पश्चकपालः पुरोडाशः । प्राप्तो जीविका प्राप्तजीविकः । अलङ्कुमा अलङ्कुमारिः । निष्कौशाम्बिः । अश्वश्च वडवा च अश्ववडवं समाहारे । अन्यत्र अश्ववडयौ । वडवाशब्दहखोऽश्ववडवेतिसूत्रनिदेशादेव । अश्ववडवान् । अश्ववडवैरिति । पूर्वरात्र इत्यादिषु रात्राहाहाः पुंसि पूर्वाह्नः । द्वयहः । परलिङ्गापवादोऽयम् । संख्यापूर्वी द्विगुः ॥ रात्रान्तः क्लीधे । द्विरात्रम् । त्रिरात्रम् । अपन्थाः। परलिङ्गः । अपथं तु पधशब्दादकारान्तात् । अर्धर्चादयः पुंसि क्लीवे च । अर्धर्चः । अर्धर्चम् । ध्वजः । ध्वजम् । एवं तीर्थशरीरादयः। जात्याख्यायां नवैकोऽसंख्यो वहुवत् ॥२।२।१२१॥
एकोऽप्यर्थः संख्यावाचिविशेषणरहितो बहुवत्स्यात् । सम्पन्नो यवः । सम्पन्ना यवाः । मुनिः पूज्यः । मुनयः पूज्याः। __ अविशेषणे द्वौ चास्मदः ॥२।२।१२२॥
अस्मदो द्वावेकश्चार्थो बहुवद्भवति, अविशेषणे।आवां ब्रूवः । अहं ब्रवीमि। वयं ब्रूमः। विशेषणे तु । आवां गाग्यौँ ब्रूव इत्येव ।
फाल्गुनी प्रोष्ठपदस्य भे ॥२।२।१२३॥ द्विवे बहुवद्वा स्यात् । पूर्वे फाल्गुन्यौ । पूर्याः फाल्गुन्यः । पूर्वे प्रोष्ठपदे । पूर्वाः प्रोष्ठपदाः । पुष्यार्थाङ्गे पुनर्वसुः ॥ नक्षत्रार्थात्पुष्यशब्दात्परो नक्षत्रवाची पुनर्वसुशब्द एकः एकार्थः स्यात् । उदितौ पुष्यपुनर्वसू । पर्यायेऽपि तिष्यपुनर्वसू ।