SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ महतः करघासविशिष्टे डाः || ३|२|६८ ॥ वा । महतः करो महत्करः । महाकरः । स्त्रियाम् ||३|२|६९ ॥ पूर्वेण सिद्धे नियमार्थमिदम् । महत्याः करो महाकरः । महत्या घासो महाघासः । पुंवत्कर्मधारये ॥ ३२२५॥७॥ इति पुंवद्भावेsयात्वम् । महानवमी । अच्वेरिति किम् ? अमहान् महान् सम्पन्नो महद्भूतञ्चन्द्रः । हविष्यष्टनः कपाले ||३|२|७३ ॥ १२४ दीर्घौऽन्तादेशः स्यात् । अष्टाकपालं हविः । अष्टागवं शकटम् । अष्टापदम् । गवि युक्ते ||३|२|७४॥ विश्वामित्रः । नाम्नि ||३|२|७५ ॥ ऋषौ विश्वस्य मित्रे ||३|२|७९ ॥ नरे ||३|२|८०|| वसुराटोः ||३|२|८१ ॥ विश्वानरः कश्चित् । विश्वावसुः । विश्वाराट् । विश्वराजौ । द्वित्र्यष्टानां द्वात्रयोऽष्टाः प्राक्शतादनशीति बहुव्रीहौ || ३ |२|९२॥ द्वौ च दश च द्वादश । द्व्यधिका दशेति वा । द्वाविंशतिः । द्वात्रिंशत् । त्रयोदश । त्रयोविंशतिः । त्रयस्त्रिंशत् । अष्टादश । अष्टाविंशतिः । अष्टात्रिंशत् । प्राकशतादिति किम् ? द्विशतम् । द्व्यशीतिः । द्विर्दश द्विदशा घटाः । प्राक् शतादित्यवधेः संख्यापरिग्रहादिह न भवति । द्वैमातुरः ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy