________________
१२३
पूर्वोत्तरमृगाच्च सक्थनः ॥७३॥११३॥
एभ्य उपमानवाचिनश्च शब्दात्परो यः सक्धिशब्दस्तदन्तादद् । पूर्वसक्थम् । उत्तरसक्थम् । मृगसक्थम् । फलकसक्थम् ।
नावः ॥ ७|३|१०४॥
अर्धशब्दात्परो यो नौस्तदन्तात्तथा द्विगोश्च नौशब्दान्तादट् स्यात् । अर्धनावः | अर्धनावी । द्विनावम् । त्रिनावम् । अलुकीत्येव । द्वाभ्यां नौभ्यां क्रीतो द्विनौः । पञ्चनौः ।
वार्धाच्च ॥ ७|३|१०३॥
खारीशब्दादलुकोsट् वा स्यात् । अर्धं खार्याः अर्धखारम् । अर्धखारी । I
खार्या वा ॥ ७|३|१०२॥
द्विगोः खार्या अट् वा । द्विखारम् । द्विखारि ।
वाञ्जलेरलुकः ॥७|३|१०१॥
द्वित्रिभ्यां परो योञ्जलिशब्दस्तदन्ताद्विगोरट् वा स्यात्, नचेद्विगुस्तडितलुगन्तः स्यात् । द्वयोरञ्जल्योः समाहारो द्व्यञ्जलं द्व्यञ्जलि वा । अलुक इत्येव । द्वाभ्यामञ्जलिभ्यां क्रीतो द्व्यञ्जलिः ।
नञव्ययात्संख्याया डः ॥ ७|३|१२३॥
अनवाः । निर्गतस्त्रिंशतोऽङ्गुलिभ्यो नित्रिंशः । निर्गतानि त्रिंशतो निि शानि वर्षाणि ।
राष्ट्राख्याह्मणः ॥७|३|१०७॥
राष्ट्रवाचिनः परो यो ब्रह्मन् तदन्तादद् । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः । कुमहद्भयां वा ॥७३॥१०८॥
पापो ब्रह्मा ब्रह्मः । कुब्रह्मा वा ।
जातीयैकार्थेऽच्वेः ॥३॥२॥७०॥
महतोऽव्यन्तस्य जातीयप्रत्यये एकार्थे चोत्तरपदे परे डान्तादेशः स्यात् । महान् प्रकारोऽस्य महाजातीयः । महाँश्चासौ वीरश्च महावीरः । महादेवः । एकार्थे इति किम् ? महतः सेवा महत्सेवा । जातीय इति किम् ? प्रकृष्टो महान् महतरः । वैयधिकरण्येऽपि ।