________________
१२२
जम् । यहः।
अह्नः ॥७।३।११६॥ एतदन्तादप्यद । उत्तमाहः । एकाहम् । पुण्याहम् ।
संख्यातादहश्व वा ॥७।३।११७॥ संख्याताः। संख्याताहः ।
सर्वाशसंख्याव्ययात् ॥७॥३३११८॥ सर्वमहः सर्वाह्नः । पूर्वाह्नः । द्वयोरहोर्भवो व्यहः पटः । व्यही अष्टका ।
शुनादीनाम् ॥२॥३॥१९६॥ एषु णत्वं न । दीर्घाही प्रावृद।
अतोऽह्नस्य ॥२॥३॥७२॥ रेफादिमतोऽकारान्तात्पूर्वपदास्परस्याहशब्दस्य नकारस्य णत्वं स्यात् । सर्वाह्नः । अत इति किम् ? निरहम् ।।
द्विगोरन्नहोऽट् ॥७३९९॥ अन्नन्तादहनशब्दाच द्विगोः समाहारेऽर्थेऽट् स्यात् । शतराजी । शतरा
उरसोऽग्रे ॥७।३।११४॥ अग्रं मुखं प्रधानं वा तम्रोरसोऽट् स्यात् । अश्वानामुर इवाऽश्वोरसम् । मुख्योऽश्व इत्यर्थः।
सरोऽनोऽश्मायसो जातिनाम्नोः ॥७॥३॥११५॥
एतदन्तात्तत्पुरुषादट् स्याज्जाती संज्ञायां च । जातसरसम् । उपानसम् । महानसम् । स्थूलाश्मः । अमृताश्मः । कनकाश्मः । जातिविशेषा एते। लोहितायसमिति ना इत्येके।
ग्रामकोटात्तक्ष्णः ॥७।३।१०९॥ अट् । ग्रामस्य तक्षा ग्रामतक्षः । ग्रामसाधारणः। कौटतक्षः। स्वतन्त्रः । न केनाऽपि प्रतिबद्ध इत्यर्थः ।
प्राणिन उपमानात् ॥७॥३॥१११॥ शुनोऽट । व्याघ्र इव व्याघ्रः । स चासौ श्वा च व्याघ्रश्वः ।
अप्राणिनि ॥७॥३।११२॥ अप्राणिनि य उपमानवाची श्वनशब्दस्तदन्ताद । श्वेव श्वा । आकर्षश्चासौ श्वा चाऽऽकर्षश्वः। शकटश्वः।