SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १२१ परिग्लानोऽध्ययनाय पर्यध्ययनः । निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः । गताधर्था इति किम् ? वृक्षं प्रति विद्योतते विद्युत् । अव्ययं प्रवृद्धादिभिः ॥३॥१॥४८॥ समस्यते । पुनः प्रवृद्धम् । श्योवसीयसम् । ङस्युक्तं कृता ॥३॥१॥४९॥ कृत्प्रत्ययविधायके सूत्रे ङसिना पञ्चम्यन्तेन नानोक्तं स्युक्तं तत्कृदन्तेन नाम्ना नित्यं समस्यते सो ऽन्यस्तत्पुरुषः। कुम्भं करोतीति कुम्भकारः । इह च गतिकारकङस्युक्तानां विभत्त्यन्तानामेव कृदन्तैर्विभक्त्युत्पत्तेः प्रागेव समास इष्यते । तेन कुम्भ अस कार इत्यलौकिक प्रक्रियावाक्यम् । ख्णमा णमा वा तुल्यविधानं उस्युक्तमव्ययेन समस्यते । अन्यथाकारं भुते । अतिथिवेदं भोजयति । ङस्युक्तमिति किम् ? वेला भोक्तुम् । अग्रे भोजम् । अग्रे भुक्त्वा । सप्तमीनिर्देशेन उस्युक्तत्वाभावान्न समासः। तृतीयोक्तंवा ॥३॥१॥५०॥ दंशेस्तृतीयया इति कृत्सूत्रादारभ्य यत्तृतीयोक्तं नाम तन्नाम्ना वा समस्यते सोऽन्यस्तत्पुरुषः । मूलकोपदंशं भुङ्क्ते । मूलकेनोपदंशं वा । क्त्वान्तेनाप्य. व्ययं वा क्वचित् । उच्चैः कृत्वा । उच्चैः कृत्य । सङ्ख्याव्ययादगुलेः॥७।३।१२४॥ एतदन्तात्तत्पुरुषाडुः समासान्तः स्यात् । द्वयोरगुल्योः समाहारो व्यङ्गुलम् । द्वे अङ्गुली प्रमाणमस्येत्यत्र प्रमाणे मात्रट् । तस्य लुपि ततः समासान्ते व्यङ्गुलं दारु । अव्ययात्, निर्गतमङ्गुलिभ्यो निरङ्गुलम् । संख्यातैकपुण्यवर्षादीर्धाच रात्ररत् ॥७।३।११९॥ एभ्यः सर्वांशेत्यादिश्यश्च पराद्रात्रिशब्दान्तात्तत्पुरुषादत्स्यात् । संख्याता रात्रिः संख्यातरात्रः। एकरात्रः । पुण्यरात्रः । पूर्वरात्रः । द्वयो रात्र्योः समाहारो द्विरानम् । अतिक्रान्तो रात्रिमतिरात्रः। गोसतत्पुरुषात् ॥७॥३।१०५॥ अलुकि अट् स्यात् । राज्ञो गौः राजगवी । अलुकीत्येव । पश्चभिर्गोभिः क्रीतः पञ्चगुः । राजन्सखेः ॥७।३।१०६॥ एतदन्तात्तत्पुरुषादट् । देवराजः। अतिराजी । राजसखः । चं. प्र. १६
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy