________________
ऊर्यादयोऽनुकरणानि व्यन्ता डाजन्ताश्च शब्दा उपसर्गाश्च धातोः सम्बन्धे सति गतिसंज्ञाः स्युः । ऊरीकृत्य । उररीकृत्य खाकृत्य । शुल्लीकृत्य । पटपटा कृत्य । प्रकृत्य ।
कारिका स्थित्यादौ ॥३॥१॥३॥ गतिः । कारिकाकृत्य । स्थितिं यत्न क्रियां वा कृत्वेत्यर्थः ।
भूषादरक्षेपेऽलंसदसत् ॥३३४॥ अलं सत् असदित्येते शब्दा यथासंख्यं भूषादरक्षेपेष्वर्थेषु वर्तमाना धातोः सम्बन्धिनो गतिसंज्ञा भवन्ति । अलङ्कत्य । सत्कृत्य । क्षेपे असत्कृत्य ।
अग्रहानुपदेशेऽन्तरदः ॥३॥१५॥ अन्तरदाशब्दो गतिसंज्ञौ अग्रहावनुपदेशे चार्थे । अन्तहत्य । मध्ये हिंसिखा शत्रून् गत इत्यर्थः । अदः कृत्यैतत्करिष्यामीति चिन्तयति । अग्रहे किम् । अन्तहेवा मूषाकान् श्येनो गतः। अनुपदेशे किम् ? अदः कृत्वा मतः परस्य कथयति।
कणेमनस्तृप्तौ ॥३॥१॥६॥ गती । कणेहत्य पयः पिबति । तावत्पियति यावत्कृप्तः । एवं मनोहत्य ।
पुरोऽस्तमव्ययम् ॥३॥१॥७॥ मतिः। पुरस्कृत्य । पूर्व कृत्वेत्यर्थः । अस्तङ्गत्याऽर्कः पुनरुदेति ।
गत्यर्थवदोऽच्छः ॥३॥१८॥ अच्छेपव्ययमाभिशब्दार्थे तद्गत्यर्थानां तथा वदश्च धातोः सम्बन्धे गतिः । अच्छगत्य । अच्छोध । अभिमुखं गत्वोक्त्वा चेत्यर्थः ।
तिरोऽन्तधौं ॥३॥१९॥ गतिः। तिरोम्य।
कृगो नवा ॥३॥१॥१०॥ तिरः कृत्य । तिरस्कृत्य । पक्षे तिरस्कृत्वा ।
उपाजेऽन्वाजे ॥३॥१॥१२॥ वा गतिः । उपाजेकृत्य । उपाजेकृत्वा । अन्धाजेकृत्य । अन्याजे कृखा। भग्नस्य बलाधानं कृत्वेत्यर्थः।।
साक्षादादिश्व्य र्थे ॥३॥१॥१४॥