SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ११८ च प्रथितं च निश्चप्रत्रम् । नास्ति किंचनास्येत्यकिश्चनः । एहि ईडे इति जल्पो यस्मिन् कर्मणि काले वा तदेहीडं वर्तते । एहियवम् । एहीडादयोऽन्यपदार्थे समासाः। आख्यातमाख्यातेन क्रियासातत्ये ॥ अश्नीत पिषतेत्येवं यत्र सततं कथ्यते सा क्रिया अनीतपिषता। एवं खादतमोदता । पचतभृजता । उद्धरोसृजा । उद्धर्मविधमा । असातत्येऽपि ह्यन्तः स्वकर्मणा बहुलमाभीक्ष्ण्ये कर्तरि समासाभिधेये ॥ जहिजोडः। जहिस्तम्बः । नास्य कुतोऽपि भयमस्तीति अकुतोभयः । अन्यो राजा राजान्तरम् । चिदेव चिन्मात्रम् ।। णवचनैः ॥३॥१॥६४॥ ईपदित्यव्ययं गुणवचनैर्नामभिः समस्यते स तत्पुरुषः । ईषदल्पं पिङ्गल ईपत्पिङ्गलः । ईषद्रक्तम्। नञ् ॥३॥१॥५१॥ नञ् नान्ना समस्यते समासोऽयं तत्पुरुषः । नात् ॥३।२।१२५॥ नशब्द उत्तरपदपरेऽकारः स्यात् । न गौरगौः। अन् स्वरे ॥३।२।१२९॥ नखरादावुत्तरपदे परेऽन् स्यात् । अनुचैः। अनजः । अनन्तः । त्यादौ क्षेपे ॥३।२।१२६॥ त्यायन्ते पदे परे निन्दार्थे न अकारः स्यात् । अपचसि त्वं जाल्म । नैकधेत्यादौ नशब्देन नाम नाम्नेतिसमासः। नगोऽप्राणिनि वा ॥३२॥१२७॥ नग इत्ययं निपात्योऽप्राणिनि । नगः अगोवा पर्वतः। नगा अगा या वृक्षाः । नखादयः ॥३।२।१२८॥ एतदाद्याः शब्दा अकृताकाराद्यादेशा निपात्यन्ते । नख नभ्राट् नपात् नबेदा नासत्य नमुचि नकुल नपुंसक नक्षत्र नक नाकादयः। गतिकन्यस्तत्पुरुषः ॥३॥१॥४२॥ कु इत्यव्ययं पापाल्पयोरस्ति । गतिसंज्ञकाः कुश्व नाम नाना नित्यं समस्यते स च समासोऽन्यो बहुव्रीयादिविलक्षणरहितस्तत्पुरुषसंज्ञः स्यात् । ऊर्याद्यनुकरणच्चिडाचश्च गतिः ॥३॥१॥२॥
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy