SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ कतरकतमौ जातिप्रश्ने ॥३॥॥१०९॥ एतावकाौँ जातिनाना प्राग्वत् । कतरश्चासौ कठश्च कतरकठः । कतमकलापः। किंक्षेपे ॥३३१११०॥ किमेतन्नामैकार्थे क्षेपे गम्ये निन्द्यनाम्ना प्राग्वत् । कुत्सितो राजा किंराजा यो न रक्षति। पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तप्रशंसारूलैर्जातिः ॥३॥१११११॥ जातिनामैकाथैः पोटादिभिः प्रशंसारूढैश्च प्राग्वत् । इभ्या धासौ पोटा च इभ्यपोटा। पुरुषवेषा स्त्री पोटा। प्रशंसारूढः । गोमतल्लिका गोमचर्चिका । गोमकाण्डम् । गवोद्धः गोतल्लजः । मतल्लिकादयो नियतलिङ्गा न विशेष्यलिङ्गानुगाः। कृत्यतुल्याख्यमजात्या ॥३।१।११४॥ कृत्यप्रत्ययान्तं तथा तुल्याख्यं नामैकार्थमजात्या प्राग्वत् । भोज्यं च तदुष्णं च भोज्योष्णम् । तुल्यश्वेतः। अजात्या किम् ? भोज्य ओदनः । विशेषणसमासोऽपि नाऽत्र । वर्णो वर्णेन ॥ प्राग्वत् । कृष्णसारङ्गः।। कडारादयः कर्मधारये ॥३॥१॥१५८॥ कडारजैमिनिः । जैमिनिकडारः । कुमारः श्रमणादिना ॥३॥१११५॥ कुमारी चासौ श्रमणा च कुमारश्रमणा । पुंस्यपि कुमारश्चासौ. अध्यापकश्च कुमाराध्यापकः । चतुष्पाद्गर्भिण्या ॥३॥११११२॥ चतुष्पाद्गवादिजातिस्तद्वाचि नाम गर्भिणीति नाना सह प्राग्वत् । गोगभिणी । महिषगर्भिणी । मयूरव्यंसकत्यादयः ॥३१॥११६॥ एते तत्पुरुषसमासा निपात्याः । व्यंसको धूर्तः । मयूरश्चासौ व्यंसकश्च मयूरव्यंसका। उदक चावकच उच्चावचम् । उचितं चावचितं च वा। निश्चितं
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy