SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ११६ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरम् ||३|१|१०३॥ पूर्वनिपातनियमार्थं सूत्रम् । पूर्वश्वासौ पुरुषश्च पूर्वपुरुषः । अपरपुरुष इत्यादि । वीरपुरुषः । कथमेकवीर इति ? स्पर्धे परमिति हि वीरैंक इति युक्तमिति । बहुलाधिकाराद्भविष्यति । श्रेण्यादिकृताद्यैरश्रव्यर्थे ||३|१|१०४ ॥ श्रेण्यादि नाम कृताद्यैरेकार्थं समस्यते च्व्यर्थे गम्यमाने स तत्पुरुषः कर्मधारयश्च । अश्रेणयः श्रेणयः कृताः श्रेणिकृताः पुरुषाः । व्यर्थ इति किम् ? श्रेणयः कृताः । नाऽत्र समासोऽनेन सूत्रेण । गतिकन्यस्तत्पुरुष इति तु स्यादेव । श्रेणिकृताः । क्तं नञादिभिन्नैः ||३|१|१०५ ॥ एकार्थ कान्तं नाम नञादिभिन्नैः प्राग्वत् । कृतं च तदकृतं च कृताकृतम् । भुक्ताभुक्तम् । इटः क्तावयवत्वादेकदेशविकृतस्यानन्यत्वान्न भेदः । पूतापवितम् । आदिशब्दात्कृतापकृतम् । सेट्नानिटा ||३|१|१०६॥ सेट् क्तान्तं नञादिभिन्नेनानिटा न समस्यते । पवितमपूतम् । शाकपार्थिवादयो मयूरव्यंसकादित्वात्। शाकप्रियः पार्थिवः शाकपार्थिवः । एवं देवब्राह्मणः । सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ||३|१|१०७॥ सदादि नामैकार्थी पूज्यनामभिः प्राग्वत्सत्कारे | सन्मुनिः । महापुरुषः । जातीयैकार्थेऽच्वेरित्यनेन डाः । पूजायामिति किम् ? उत्कृष्टो गौः । कर्दमादुद्धृत इत्यर्थः । वृन्दारकनागकुञ्जरैः || ३|१|१०८ ॥ एभिः पूज्यनामैकार्थं प्राग्वत् । गोवृन्दारकः । व्याघ्रादेराकृतिगणत्वादेव सिद्धे पूजायामेवेति नियमार्थं वचनम् । युवाखलतिपलितजरद्बलिनैः ||३|१|११३॥ युवन्नितिनामैकार्थ खलत्यादिभिः प्राग्वत् । युवा वासौ खलतिश्च युवखलतिः । युवपलितः । युवजरन् । युवबलिनः । युवतिः खलतिर्युवखलतिः । लिङ्गविशिष्टपरिभाषया युवजरती ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy