________________
११५ शमी । एतन्नामा ग्रामः । नित्यसमासोऽयम् । तद्धिते पूर्वस्यां शालायां भवः पौर्वशालः। आपरशालः । अधिकया षष्ट्या क्रीतः अधिकषष्टिकः । नित्यसमासोऽयम् । उत्तरपदे, दक्षिणो गौधनमस्य दक्षिणगवधनः । पूर्वगवीप्रियः । अधिकगवीप्रियः । एषु तत्पुरुषलक्षणः समासान्तः । नित्यसमासः । त्रयाणामेकार्थीभाव एव उत्तरपदसम्भवात् । तत्र च द्वयोव्यपेक्षाभावात् । संख्या समाहारे च द्विगुश्वानाध्ययम् ॥३३११९९॥
अनेकस्य कथंचिदेकत्वं समाहारः । संख्या परेण नाना प्रारबत्, संज्ञायां तद्धितविषये उत्तरपदे च परे समाहारेऽभिधेये तत्पुरुषः कर्मधारयश्चायमेव चाऽनानि असंज्ञायां द्विगुसंज्ञः स्यात् । पञ्चाम्राः । सप्तर्षयः । द्वयोर्मात्रोरपत्यं बैमातुरः। पश्चानां नापितानामपत्यं पाश्चनापितिः । उत्तरपदे, पञ्च गावो धनमस्य पञ्चगवधनः । पञ्च नावः प्रिया यस्य स पञ्चनायप्रियः । पञ्चानां पूलानां समाहारः पञ्चपूली। पञ्चानां राज्ञां समाहारः पञ्चराजी । एवं पञ्चकुमारी । दशकुमारी । पश्चानां गवां समाहारः पञ्चगवम् । पात्रादिवर्जिताददन्तोत्तरपदः समाहारे द्विगुरनाषन्तान्तो वाऽन्यस्तु सर्वो नपुंसकः।
निन्द्यं कुत्सनैरपापाद्यैः ॥३॥१०॥ निन्यं निन्दाहेतुभिः प्राग्वत् । वैयाकरणश्चासौ खसूचिश्च वैयाकरणखसूचिः । अपापाचैरिति किम् ? अणकनापितः। विशेष्यस्य पूर्वनिपातार्थ सूत्रम् ।
उपमानं सामान्यैः ॥३॥१॥१०१॥ शस्त्रीव शस्त्री । शस्त्री चासौ श्यामा च शस्त्रीश्यामा स्त्री । शस्त्रीव श्यामेत्यर्थः । एवं धनश्यामः । इह पूर्वपदं तत्सदृशे लाक्षणिकमितिसूचयितुमिवशब्दः । उपमानमिति किम् ? देवदत्ता श्यामा । सामान्यैरिति किम् ? अनिर्माणक्कः। गौर्वाहीकः । उपमान सामान्यैरेव पूर्व निपततीति नियम्यते।
उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ॥३२१११०२॥ -उपमेयवाच्येकार्थमुपमानवाचिभिर्व्याघायैः साधारणधर्मानुक्तो समस्यते तत्पुरुषः कर्मधारयश्वायम् । पुरुषश्चासौ व्याघ्रश्च पुरुषव्याघ्रः । पुरुषसिंहः । साम्यानुक्ताविति किम् ? पुरुषो व्याघ्र इव शूरः। विशेषणं विशेष्येणैकार्थ कर्मधारयश्च ॥३॥१९६॥
विशेषणवाचि नाम विशेष्यवाचिना नाना सह समस्यते तत्पुरुषः कर्मधारयश्च स्यात् । नीलं च तदुत्पलं च नीलोत्पलम् । रक्ता चासौ गौश्च रक्तगवी। पुमांश्चासौ गोश्च पुंगवः । कचिन्नित्यम् । नरसिंहः । व्यवच्छेद्यव्यवच्छेदकामावेन समासः। तक्षकः सर्पः । लोहितस्तक्षकः । रामो जामदग्यः।