________________
११३
सायाह्रादयः ||३|११५३॥
एते निपात्यन्ते । सायमहः सायाहः । मध्याह्नः । मध्यन्दिनम् । मध्यरात्रः । पश्चिमरात्रः । बहुवचनमाकृतिग्रहणार्थम् । षष्ठीसमासबाधनार्थं तु वचनम् । पूर्वे पञ्चाला इत्यादिवत्समुदायवाचिनामंशेऽपि वृत्तिदर्शनात् सामानाधिकरण्ये सति कर्मधारयेणैव सिद्धं सायं च तदहश्च सायाह इत्यादि ।
समेंशेऽधं न वा ॥ ३ | ११५४ ॥
समांशवाच्यर्धशब्दोंऽशिना प्राग्वत् । अर्ध पिप्पल्या अर्धपिप्पली । परलिङ्गो द्वन्द्वोंशीति स्त्रीलिङ्गता । पक्षे पिप्पल्या अर्धम् । समेंऽश इति किम् ? ग्रामार्थः । अभिन्नेनेत्येव । अर्ध पिप्पलीनाम् ।
जरत्यादिभिः || ३|११५५ ॥
असमांशार्थं आरम्भः । अर्धशब्दो जरत्यादिभिरंशिभिरभिन्नैः सह वा समस्यते स च तत्पुरुषः । अर्धी जरत्या अर्धजरती । बहुवचनमाकृतिग्रहणार्थम् । इदमपि षष्ठीसमासबाधनार्थं वचनम् ।
द्वित्रिचतुष्पूरणाग्रादयः || ३|१|५६ ॥
द्विप्रमुखाः पूरणप्रत्ययान्ता अग्र इत्यादयश्च शब्दा अंशिना सह प्राग्वत् । द्वितीयं भिक्षाया द्वितीयभिक्षा । अग्रं हस्तस्य अग्रहस्तः । एवं तलपादः । पक्षे भिक्षाद्वितीयमित्यादि । तृप्तार्थेति बाधित्वा षष्ठीसमासो विकल्पात् ।
कालो द्विगौ च मेयैः ||३|११५७ ॥
मेयवाचिना कालवाचिनामेकवचनान्तं द्विगौ च विषये वर्तमानं समस्यते तत्पुरुषोऽयम् । मासो जातस्य यस्य स मासजातः । एको मासो जातस्य यस्य स एकमासजातः । द्वे अहनी सुप्तस्य यस्य स द्व्यहसुप्तः । कथं द्व्यहजातः ? द्वयोरहोः समाहारो द्व्यहः । द्व्यहो जातस्येति विग्रहात् । अन्यथा द्वे अहह्नी जातस्य द्व्यहजातः । काल इत्येकवचनं द्विगोरन्यत्र प्रयोजकम् । तेन मासौ मासा वा जातस्येत्यत्र न स्यात् । द्विगौ तु द्वौ मासौ जातस्य द्विमासजात इति स्यात् । सप्तमी शौण्डाद्यैः ॥३१॥८८॥ .
सप्तम्यन्तं शौण्डायैः प्राग्वत् । अक्षेषु शौण्डोऽक्षशौण्डः । ईश्वराधीनः । अधीन शब्दोऽयम् ।
सिंहाद्यैः पूजायाम् ||३|१|८९ ॥
सप्तम्यन्तं नाम सिंहायैः समस्यते पूजायां गम्यमानायां स तत्पुरुषः । समरे सिंह इव इति समरसिंहः । रणव्याघ्रः ।
चं. प्र. १५