SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ विहितस्तदन्तेन नाना पछ्यन्तं नाम न समस्यते । राज्ञा ज्ञातः। राज्ञामिष्टः। राज्ञां पूजितः । भूतार्थक्तान्तेन तृतीयासमास्तूक्त एव । अस्वस्थगुणैः ॥३॥११८७॥ ये गुणाः स्वात्मन्येवावतिष्ठन्ते न द्रव्ये ते स्वस्थाः । अस्वस्थगुणवाचिभिनामभिः सह षष्ठ्यन्तं नाम न समस्यते । पटस्थ शुक्लः। गुडस्य मधुरः। अत्रा त्प्रकरणाद्वाऽपेक्ष्यस्य वर्णादेर्निज्ञाने य इमे शुक्लादयस्ते पटस्येति सामोपपत्तेः समासः प्रामोतीति प्रतिषिध्यते । तृतीयायाम् ॥३१॥८४॥ कर्तरि या तृतीया तस्यां सत्यां कर्मजा षष्टी न समस्यते । आश्चर्यों गवां दोहोऽगोपेन। न कर्तरि ॥३॥१॥८२॥ योक्ता षष्ठी तदन्तं नामाकप्रत्ययान्तेन न समस्यते । भवतः शाथिका । भवत आसिका। कर्मजा तृचा च ॥३।१८३॥ कर्मविहितषष्ट्यन्तं नाम कर्तृविहिताकप्रत्ययान्तेन तथा तृजन्तेन नाना न समस्यते । ओदनस्य भोजकः । सक्तूनां पायकः । अपां स्रष्टा । वज्रस्य भो। पत्यर्थभर्तृशब्दस्य याजकादित्वात्समासः। भूभर्ता । त्रिभुवनषिधातुश्च कलह इति शेषषष्ट्या समासः। अकेन क्रीडाजीवे ॥३॥१८१॥ क्रीडायां जीविकायां च गम्यायां षष्ठ्यन्तं नामाकप्रत्ययान्तेन समस्यते । उहालकपुष्पभलिका । क्रीडाविषयोऽयम् । जीविकायां, दन्तलेखकः । नित्यसमासोऽयम् । पत्तिरथौ गणकेन ॥३॥१॥७९॥ एतौ षष्ट्यन्तौ गणकेन सह समस्येते । पत्तीनां गणकः पत्तिगणकः । एवं रथगणकः । पूर्वापराधरोत्तरमभिन्नांशिना ॥३॥१॥५२॥ अंश एकदेशस्तद्वानंशी । पूर्वादयः शब्दाः सामर्थ्यादंशवाचिनोऽशिना सह समस्यन्ते न चेत्सोंऽशी भिन्नः प्रतीयते । स च तत्पुरुषः । पूर्वः कायस्य पूर्वकायः । एवमपरकाय इत्यादि । अभिन्नेनेति किम् ? पूर्व छात्राणामामन्त्रयस्व । 'मसजयप्रतिषेधः किम् ? पूर्व पाणिपादस्य । अंशिनेति किम् ? पूर्वो नाभेः कायस्य ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy