SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १११ तेनाऽसत्त्वे ||३|१|७४ ॥ असत्त्वे वर्तमानाद्या पञ्चमी तदन्तं नाम तप्रत्ययान्तेन नाम्ना प्राग्वत् । स्तोकान्मुक्तः । दूरादागतः । असत्त्वे ङसेरित्यलुप् । परःशतादिः ॥३१॥७५॥ निपात्याः । शतात्परे परः शताः । परः सहस्राः । षष्ट्ययनाच्छेषे ||३|१|७६ ॥ शेषे या षष्ठी तदन्तं नाम नाम्ना समस्यते स तत्पुरुषः । अयत्नात् न चेत्स शेषो नाथ इत्यादियाद्भवति । राज्ञः पुरुषोराजपुरुषः । राज्ञो गोक्षीरं राजगोक्षीरम् । राजगव्याः क्षीरं राजगवीक्षीरम् । अयत्नादिति किम् ? सर्पिषो नाथितम् । याजकादिभिः ॥३१॥७८॥ षष्ठ्यन्तं नाम याजकादिनामभिः प्राग्वत् । ब्राह्मणानां याजको ब्राह्मणयाजकः । देवपूजकः । सर्वपश्चादादयः ||३|११८०॥ एते षष्ठीतत्पुरुषाः साधवः स्युः । सर्वेषां पश्चात् सर्वपश्चात् । सर्वचिरंजीवति । तदनु । तदुपरिष्टात् । परं धत्ते । अव्ययस्य निषेधो वक्ष्यते तदपवादो ऽयम् । सर्वेषां श्वेततरः सर्वश्वेत इति तरलोपाज्ज्ञेयम् । कृति ||३|१|७७॥ प्रागुक्तं सूत्रद्वयं कर्मणि कृतः कर्तरि ( ) एतद्वयोक्ता कृत्प्रत्ययनिमित्ता या षष्ठी तदन्तं नाम नाम्ना समस्यते । तत्पुरुषोऽयम् । सिद्धसेनकृतिः । गणधरोक्तिः । इध्मनो ब्रश्चन इध्मत्रश्वनः । पलाशशातनः । सर्पिर्ज्ञानम् । निर्धारणषष्ट्या तथा प्रतिपदविहितषष्ट्या न समासः । नृर्णा क्षत्रियः शूरः | अज्ञाने ज्ञः षष्ठीतिप्रतिपदविहिता । सर्पिषो ज्ञानम् । तृप्तार्थ पुरणाव्ययातृशशत्रानशा ||३|१|८५ ॥ तृप्तार्थैः पूरणप्रत्ययान्तैरव्ययैरसृशन्तैः शत्रन्तैरानशन्तैश्च नामभिः षष्ठ्यन्तं नाम न समस्यते । फलानां तृप्तः । तीर्थकराणां षोडशः शान्तिः । राज्ञः साक्षात् । रामस्य द्विषन् रावणः । चैत्रस्य पचन् । अध्वगानां धावन्तः शीघ्रतमाः । चैत्रस्य पक्ष्यन् । चैत्रस्य पचमानः । चैत्रस्य वक्ष्यमाणः । सर्वत्र सम्बन्धे षष्ठी । ज्ञानेच्छार्चार्थाधारक्तेन ||३|१|८६ ॥ ज्ञानार्थादिच्छार्थादर्थार्थाच वर्तमाने यः प्रयत्यो यश्च अथार्थाचाधारे
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy