SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [९ औषप्पमहिपूरिदत्तम् । धर्मेण सप्ताङ्गं राज्यं आमाय दत्तम् । लाहीदम् । धर्माद्धि राज्यं लभ्यते । काऽत्र चर्चा ? । आमेन गृहीतम् । तदा सूरिणा आमः प्रोक्त:--राजन् ! पुना राज्यं धर्माय देहि । महादानमिदम् । शोभते च ते । राजस्थापनाचार्याश्च पारम्पर्येण यूयम् । पूर्व श्रीरामेण वनस्थेनापि सुग्रीव-विभीषणौ राजीकृतौ । त्वमप्येवं युगीननृपेषु तत्तुल्यः । एतद्वचनसमकालमेव आमेन गाम्भीर्यौदार्यधाम्ना धर्माय तद्राज्यं प्रत्यर्प्य स धर्मः परिधापितः । स्वे मत्ताः करिणः शतं, सहस्रं तुङ्गास्तु रङ्गाः, सहस्रं सवरूथा रैथाः, शतं वादिवाणि प्रादायिषत । स्वं स्वं स्थानं गताः सर्वे । १० सरि-भूपौ यशोधवलितसप्तभुवनौ 'गोपगिरौ' श्रीमहावीरमवन्दिषा ताम् । तदा सूरिकृतं श्रीवीरस्य स्तवनम्- "शान्तो वेषः शमसुखफला" इत्यादि काव्यैकादशकमयमद्यापि सछे पठ्यते । सझेन प्रभुर्ववन्दे । तुष्टुत्रे च रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयग्रहः ? । १५ न तमांसि न तेजांसि, यस्मिन्नभ्युदिते सति ॥ १ ॥ अन्यदा स्वपरसमयसूक्तैः प्रबोध्य राजा प्रभुभिर्मद्यमांसादिसप्तव्यसननियम कारितः । सम्यक्त्वमूलैकादशवतनिरतश्च श्राक्कः कृतः । द्वादशं व्रतं त्वतिथिसंविभागरूपं प्रथमचरमजिननृपाणां निषिद्धं सिद्धान्ते। १ग.. 'तुल्यः'। २ क-'प्रत्यापि'। ३ घ-वधाः'। ४ घ-"नभ्युदये सति'। ५ अनुष्टुप् । " द्यूतं मांसं तुरा वेश्या, पाश्विोरिका तथा । परस्त्रीगमनं चेति, सप्तव व्यसनानि हि ॥४॥" इति श्रीसोमप्रभसूरिसूत्रिते सप्तव्यसनकथासमुच्चये। ७क-'प्राहितः । ८ स्थूलप्राणातिपातविरमण-स्थूल-मृषावादविरमण-स्थूलादत्तादानविरमण-परबारगममधिरमण-स्थूलपरिप्रहविरमण-दिग्वत-भोगोपभोगविरमणामर्थदण्डविरमण-सामायिक-देशाषकाशिक-पोषधेसिवतैकादशकम् ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy