SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराह्वये कुर्वतस्तस्य नदनाद् गुटिका ममेच्छया पतिष्यति तदा त्वया जेष्यते, एकं तु याचे---मत्स्तुतेश्चतुर्दशकाव्यं कस्याप्यने न प्रकाश्यम् । तत्पठने हि मया धुवं ध्रुवं प्रत्यक्षया भाव्यम् । कियतां प्रत्यक्षा भवामि ? । क्लेशेनालम् । एवमुक्त्वा देवी विद्युज्झा कारलीलयाऽन्तर्दधे । सारीभिर्निशि परमाप्तः शिष्य एको वाक्- ५ पतिराजसमीपं प्रहित्याख्यापितम्, यथा सूरयो वदन्ति--राजन् ! त्वं विद्यानिधिरस्माकं 'लक्षणावती'पुरीपारचितचरः । तदाऽवादी:-भगवन् ! निरीहा भवन्तः, को भवद्भ्यो भक्तिं दर्शयामि ? ।” तदा वयमबोचाम----अवसरे कामपि भक्ति कारयिध्यामः । भवद्भिर्भगितम्-तथाऽस्तु । इदानीं सोऽवसरोऽत्र १० समायातः । वाक्पतिना शिष्यः पृष्टः --- सूरयः किं मे समादिशन्ति ? आदिष्टं कुर्वे ध्रुवम् । शिष्यो न्यवेदयत्-~राजन् ! गुरव आदिशन्ति---प्रातधर्मा-ऽऽमयोः सदःस्थयोः सतोस्त्वया वाच्यं यथा बदनशौचं विना भारती न प्रसीदति । तस्माद् वादिप्रतिवादिसभ्यसभेशाः सर्वे शौचं कुर्वन्तु । एतावति कृते १५ भवता नः सर्वः स्नेहः कृत एव । वामतिना तदङ्गीकृतम् । शिष्येणोपगुरु गत्वा तत् तत्प्रतिज्ञातं कथितम् । तुष्टा गुरवः । प्रत्यूषे उदयति भगवति गभस्तिमालिनि लाक्षालिप्त इध प्राचौमुखे राजानौ सभायामागाताम् । वाक्पतिना बदनशौचं सर्वे कारिताः, बौद्धवादीन्द्रोऽपि । तस्य वदनकमलाद् विगलिता गुटिका पसद्- २० ग्रहे । बप्पभट्टिशिष्यैः पतग्रहो जनैदूरे कारापितः । गुटिका सूरीन्द्रसाजाता । बौद्धो गुटिकाहीनः सूरिणा पार्थेन कर्ण इव दिव्यशक्तिमुक्तो निःशङ्क वाक्पृषत्कर्हतः । निरुत्तरीकृतः राहुग्रस्तश्चन्द्र इव हिमानीविलुप्तस्तरुखण्ड इत्र बाढं निस्तेजतां भेजे । तदा श्रीवप्पभट्टनिर्विवादं वादिकुञ्जरकोसरीति बिरुदं स्वैः परैश्च २५ -- --. ३ ख-'कारापयिष्यामः' । १ ग-'ध्रुवं प्रत्यक्षः'। २ ख- रस्मान्' । ४ का-'आदिशन्तु' । ५ घ--'सभ्येशाः' । ६ सूर्ये ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy