SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ झ-परिशिष्टम् २. ५ कायिक- वाचिक-मानसिकक्रियानिग्रहो गुप्तिः । एतत्स्वरूपार्थिना प्रेक्ष्यतां तत्त्वार्थ (अ. ९ सू. ४) टीका ( पृ. १८३ - १८६)। २, ६ चक्री = चक्रवर्ती | २, ६ चरमतीर्थङ्करस्य विविधानि नामानि । तानि चैवम् - वर्धमानः, वीरः, महावीरः, ज्ञातनन्दनः, देवार्यः, सन्मतिः । ३, १ चतुर्दशपूर्वी । श्रुतज्ञानं द्विविधम् - अङ्गबाह्यमङ्गप्रविष्टं च । प्रथममनेकविधम्, द्वितीयं तु द्वादशभेदम्, तद् यथा - आचारः, सूत्रकृतः, स्थानम्, समवायः, व्याख्याप्रज्ञप्तिः, ज्ञातधर्मकथाः, उपासकाध्ययनंदशाः, अन्तकृदशाः, अनुत्तरोपपातिकदशाः, प्रश्नव्याकरणम्, विपाकसूत्रम्, दृष्टिपातो दृष्टिवादो वा । अन्तिमस्य परिकर्मसूत्र - पूर्वानुयोग- पूर्वगत- चूलिकेति पच प्रकाराः । तत्र पूर्वगतस्य चतुर्दश प्रकारा ये पूर्वेति प्रसिद्धाः । एतेषां संस्कृतप्रायाणां समस्तानां ज्ञाता चतुर्दशपूर्वी चतुर्दशपूर्वधरः कथ्यते । पूर्वस्वरूपजिज्ञासुभिः दृश्यतां नन्दीसूत्रं (सू. ५७ ) प्रवचनसारोद्धारो (गा. ७११-७१८) वा । ३, १३ पञ्चेन्द्रियसंवरः, नवविधं ब्रह्मचर्यम्, चतुर्विधकषायमुक्तता, महाव्रतपञ्चकम्, पश्चविधाचारपालनसमर्थता, पञ्च समितयः, तिस्रो गुप्तय इति षट्त्रिंशद् गुणाः सूरेः -- आचार्यस्य । ३, १६ निर्युक्ति: जिनप्रवचनस्य पचात्मिका प्राकृतभाषानिबद्धा - ९, १३ व्याख्या । (6 सप्त वर्षाणि वर्ष वा, पूर्णिमायां यथाबलम् । तपः प्रकुर्वतां 'पुण्ड - रीका' ख्यं तप उच्यते ॥ " इति तपोरत्नमहोदधौ ६६ तमे पत्रे । ९, १५ ९९,१८ २००, ३ समस्ति उपदेशतरङ्गिण्यां (पृ. १६० - १६१) । ११, ९ अवधिना = तृतीयेन प्रकारेण ज्ञानेन । चर्षियति-सचि २९३ साधर्मवात्सल्यम् = समानधर्मिणः प्रति प्रीतिः । एतत्स्वरूपं
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy