________________
प्रबन्धकोशेत्यपराहये 'मलधारि बिरुदविदितश्रीअभयोपपदसूरिसन्ताने श्रीतिलकसूरिशिष्यः सूरिः श्रीराजशेखरो जयति ॥२॥ तेनायं मृदुगधैर्मुग्धो मुग्धावबोधकामेन। रचितः प्रबन्धकोशो जयताजिनपतिमतं यावत् ॥ ३॥' तथा'कट्टारवीरदुस्साध'वंशमुकुटो नृपौघीतगुणः । बब्बूलीपुरकारितजिनपतिसदनोच्छलत्कीर्तिः ॥ ४ ॥ बप्पकसाधोस्तनयो गणदेवोऽजनि 'सपादलक्ष'भुवि । तनकनामा तत्पुत्रः साढको दृढधीः ॥ ५ ॥ तत्सूनुः सामन्तस्तत्कुलतिलकोऽभवजगत्सिंहः । दुर्भिक्षदुःखदलनः श्रीमहमदसाहिगौरवितः ॥ ६॥ १. तज्जो जयति सिरिभवः षड्दर्शनपोषणो महणसिंहः । 'दिल्लयां' स्वदत्तवसतौ ग्रन्थमिमं कारयामास ॥ ७ ॥ शरगगनमनु(१४०५)मिताब्दे ज्येष्ठामूलीयधवलसप्तम्याम् । निप्पममिदं शास्त्रं श्रोत्रध्येत्रोः सुखं तन्यात् ॥ ८ ॥
इति चतुर्विंशतिप्रबन्धाः सम्पूर्णाः ॥ १५
घ-श्रीमलधारिंगच्छे श्रीअभयसूरिसन्ताने । २ घ- 'राजशेखरसूरीन्द्रवादीन्द्रकृतिरियम्' । ३ अतः परं सप्तमपर्यन्तानि पचानामभावो घ-प्रती । स'वश्छलीपूर ' । ५ घ-'श्रीः ॥ संवत् १५२० वर्षे वैशाखदि त्रयोदश्यां भगुवारे ।। श्री'तपागच्के श्री ४ सोमसुन्दरसूरिश्रीमुनिसुन्दरसूरि श्रीजयचन्द्रसूरिशिष्यः चतुर्विंशतिप्रबन्धानां प्रतिमेतामलीलिखत् ॥ लेखकवाचकयोः शुभं करुबाएं भूयात् भवतु इत्यादि पण्डितमेरुरत्नमणिना लिखापिता ॥ ॥ श्रीः ।।'